यथा नदीनां बहवो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः

यथा नदीनां बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति तथा तव अमी नरलोकवीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥ २८ ॥

अन्वयः

यथा नदीनां बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति तथा अमी नरलोकवीराः अभिविज्वलन्ति तव वक्त्राणि विशन्ति ।

शब्दार्थः

यथा = येन प्रकारेण
नदीनाम् = स्त्रोतसाम्
बहवः = असङ्ख्याकाः
अम्बुवेगाः = जलप्रवाहाः
समुद्रम् एव = सागरम् एव
अभिमुखाः = सम्मुखाः सन्तः
द्रवन्ति = प्रवहन्ति
तथा = तेन प्रकारेण
अमी = एते
नरलोकवीराः = मर्त्यलोकशूराः
अभिविज्वलन्ति = प्रकाशमानानि
तव = ते
वक्त्राणि = मुखानि
विशन्ति = प्रविशन्ति ।

अर्थः

यथा स्रोतसाम् असङ्ख्याकाः जलप्रवाहाः सागरम् एव अभिमुखीभूय प्रविशन्ति तथा एते शूराः प्रकाशमानानि तव मुखानि प्रविशन्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=यथा_नदीनां_बहवो...&oldid=7057" इत्यस्माद् प्रतिप्राप्तम्