यत्साङ्ख्यैः प्राप्यते स्थानं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चमः (५) श्लोकः ।

पदच्छेदः

यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ४ ॥

अन्वयः

यत् स्थानं साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते । यः साङ्ख्यं च योगं च एकं पश्यति सः पश्यति ।

शब्दार्थः

यत् = यत्
स्थानम् = पदम्
साङ्ख्यैः = ज्ञानिभिः
प्राप्यते = लभ्यते
तत् = तत्
योगैः = कर्मयोगिभिः
अपि = अपि
गम्यते = लभ्यते
यः = यः पुरुषः
साङ्ख्यं च = ज्ञानमार्गं च
योगं च = योगमार्गं च
एकम् = समानफलम्
पश्यति = वीक्षते
सः पश्यति = स एव सम्यक् पश्यति ।

अर्थः

ज्ञानिभिः सन्न्यासिभिः यत् स्थानं प्राप्यते तदेव स्थानं कर्मयोगिभिः अपि प्राप्यते । यः ज्ञानयोगं कर्मयोगं च समानप्रयोजनं पश्यति सः एव सम्यक् पश्यति, नान्यः ।

शाङ्करभाष्यम्

एकस्यापि सम्यगनुष्ठानात्कथमुभयोः फलं विन्दत इत्युच्यते-यदिति। यत्साथ्यैर्ज्ञाननिष्ठैः फलमनभिसंधायानुतिष्ठन्ति ये ते योगिनस्तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेणगम्यत इत्यभिप्रायोऽत एकं सांख्यं योगं च यः पश्यति फलैकत्वात्स सम्यक्पश्यतीत्यर्थः ।।5।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु