यत्र योगेश्वरः कृष्णो...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
- तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टसप्ततितमः(७८) श्लोकः ।
पदच्छेदः
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥
अन्वयः
यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः (इति) मम मतिः ।
शब्दार्थः
- योगेश्वरः = सर्वयोगेशः
- धनुर्धरः = गाण्डीवधरः
- पार्थः = अर्जुनः
- श्रीः = लक्ष्मीः
- विजयः = जयः
- भूतिः = ऐश्वर्यम्
- ध्रुवा = स्थिरः
- नीतिः = धर्मः
- मतिः = बुद्धिः ।
अर्थः
यत्र योगेश्वरः कृष्णः वर्तते यत्र च धनुर्धरः पार्थः वर्तते, तत्र सम्पत्तिः जयः ऐश्वर्यं धर्मः च अवश्यं भवति इति मम मतिः ।