यत्तु कामेप्सुना कर्म...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासं तत् राजसम् उदाहृतम् ॥

अन्वयः

कामेप्सुना साहंकारेण वा पुनः बहुलायासं तु यत् कर्म क्रियते तत् राजसम् उदाहृतम् ।

शब्दार्थः

कामेप्सुना = फलाभिलाषयुक्तेन
साहारेण वा = अहारसहितेन वा
बुहुलायासम् = अधिकायासम् ।

अर्थः

फलापेक्षया अहारेण च यत् श्रमसाध्यं कर्म क्रियते तत् राजसम् इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः