यज्ञे तपसि दाने च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते कर्म च एव तदर्थीयं सत् इति एव अभिधीयते ॥

अन्वयः

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । तदर्थीयं कर्म च एव सत् इति एव अभिधीयते ।

शब्दार्थः

स्थितिः = वृत्तिः
तदर्थीयम् = यज्ञदानतपःप्रयोजनार्थम्
अभिधीयते = प्रोच्यते ।

अर्थः

यज्ञाय तपसे दानाय च या स्थितिः क्रियते सापि सत् इति कथ्यते । तथा तेषां यज्ञादीनां यद् अनुकूलं कर्म वर्तते तदपि सत् इति शब्देनैव उच्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=यज्ञे_तपसि_दाने_च...&oldid=6387" इत्यस्माद् प्रतिप्राप्तम्