यज्ज्ञात्वा न पुनर्मोहम्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।

पदच्छेदः

यत् ज्ञात्वा न पुनः मोहम् एवं यास्यसि पाण्डव येन भूतानि अशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३५ ॥

अन्वयः

पाण्डव ! यत् ज्ञात्वा पुनः मोहम् एवं न यास्यसि । येन आत्मनि भूतानि अशेषेण द्रक्ष्यसि । अथो मयि । (तत् ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।)

शब्दार्थः

पाण्डव = पाण्डुपुत्र !
यत् ज्ञात्वा = यत् विज्ञाय
पुनः = भूयः
मोहम् = व्यामोहम्
एवम् = इत्थम्
न यास्यसि = न गमिष्यसि
येन = येन ज्ञानेन
आत्मनि = स्वस्मिन्
भूतानि = प्राणिनः
अशेषेण = समग्रम्
द्रक्ष्यसि = पश्यसि
अथो = अनन्तरम्
मयि = भगवति ।

अर्थः

अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।

शाङ्करभाष्यम्

तथाच सतीदमपि समर्थं वचनं-यदिति। यज्ज्ञात्वा यज्ज्ञानं तैरुपदिष्टमधिगम्य प्राप्य पुनप्भूयो मोदमेवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हे पाण्डव। किंचयेन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसिसाक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीति, अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः ।।35।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु