मुम्बई-उपनगर-मण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

कण्हेरी लयनानि
सञ्जय गान्धी राष्ट्रियोद्यानम्
सञ्चिका:IITB Main Building.jpg
भारतीय-प्रौद्योगिकी-संस्थानम्(IIT), पवई

मुम्बई-उपनगर-मण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बान्द्रा (पूर्व) इत्येतन्नगरम् । १ ओक्टोबर् १९९० दिनाङ्के अस्य परिसरस्य मण्डलत्वेन स्थापना कृता ।

भौगोलिकम्

मुम्बई-उपनगर-मण्डलस्य विस्तारः ३६९ च.कि.मी. मितः अस्ति । इदं मण्डलं महाराष्ट्रराज्यस्य पश्चिमभागे अस्ति । अस्य मण्डलस्य पूर्वदिशि मुम्बईमण्डलं, पश्चिम-दक्षिणदिशोः अरबी सागरः अस्ति । उत्तरदिशि ठाणेमण्डलम् ‌अस्ति । अस्मिन्मण्डले प्रवहन्ती प्रमुखनदी मिठी

जनसङ्ख्या

मुम्बई-उपनगर-मण्डलस्य जनसङ्ख्या(२०११) ९३,५६,९६२ अस्ति । अत्र ५०,३१,३२३ पुरुषाः, ४३,२५,६३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २०,९८० जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २०,९८० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८६० अस्ति । अत्र साक्षरता ८९.९१% अस्ति ।

ऐतिहासिकं किञ्चित्

पुरा मुम्बईपरिसरः सप्तद्वीपानां समूहः आसीत् । परिसरोऽयं १७ शतके पुर्तगाल-शासकानाम् आधिपत्ये आसीत् । एतैः शासकैः अयं मुम्बईपरिसरः विवाहे उपहाररूपेण राजा-द्वितीय-चार्ल्स इत्यस्मै दत्तः । ततः आङ्ग्लाधिपत्यं स्थापितम् अत्र । आङ्ग्लप्रशासने जेराल्ड आञ्जिअर (द्वितीय गव्हर्नर) इत्यनेन द्वीपानां योजनेन एकसन्धपरिसरः निर्मापितः । तत्र वस्त्रोद्यमाः, रेलमार्गाः, रेलस्थानकानि, नौकास्थानकानि च निर्मापितानि । १८ शतकेऽपि परिसरोऽयं ख्यातकीर्तः आसीत् ।

उपमण्डलानि

  • अन्धेरी
  • बोरीवली
  • कुर्ला

लोकजीवनम्

मण्डलेऽस्मिन् आङ्ग्लप्रशासनकालात् प्रगतिः जाता इति दृश्यते । नगरे पाश्चिमात्यसंस्कृत्याः बहुप्रभावः दृश्यते ।

वीक्षणीयस्थलानि

  • 'माउण्ट मेरी' क्रिस्तप्रार्थनास्थलम्
  • कन्हेरी लयनानि
  • जोगेश्वरी लयनानि
  • 'फेण्टसी लेण्ड'
  • 'एस्सेल् वल्ड', 'वाटर किङ्गडम्'
  • सञ्जय गान्धी राष्ट्रियोद्यानम्
  • आरे कोलनी
  • 'फिल्म सिटी'
  • 'सान्ताक्रुझ' विमानपत्तम्
  • सहारा अन्ताराष्ट्रिय विमानपत्तनम्
  • तुलसी-तडागः
  • विहार-तडागः
  • पवई-तडागः
  • मिठी-नदी
  • दहिसर नदी
  • भारतीय-प्रौद्योगिकी-संस्थानम्(IIT), पवई
  • भाभा-अणुसंशोधन-केन्द्रम्
  • Hindustan & Bharat Petroleum Refineries

बाह्यसम्पर्कतन्तु:

"https://sa.bharatpedia.org/index.php?title=मुम्बई-उपनगर-मण्डलम्&oldid=4245" इत्यस्माद् प्रतिप्राप्तम्