मां च योऽव्यभिचारेण...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः

मां च यः अव्यभिचारेण भक्तियोगेन सेवते सः गुणान् समतीत्य एतान् ब्रह्मभूयाय कल्पते ॥ २६ ॥

अन्वयः

यः च अव्यभिचारेण भक्तियोगेन मां सेवते सः एतान् गुणान् समतीत्य ब्रह्मभूयाय कल्पते ।

शब्दार्थः

अव्यभिचारेण = व्यभिचारहितेन
भक्तियोगेन = भक्तिसाधनेन
समतीत्य = समतिक्रम्य
ब्रह्मभूयाय = मोक्षाय
कल्पते = अर्हति ।

अर्थः

यः मानवः व्यभिचाररहितेन भक्तिसाधनेन च मां भजते सः मानवः एतान् गुणान् समतिक्रम्य मोक्षे समर्थो भवति ।


सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मां_च_योऽव्यभिचारेण...&oldid=7019" इत्यस्माद् प्रतिप्राप्तम्