मांसाहाराः प्राणिनः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

ये मांसमेव खादन्ति, ते मांसाहाराः प्राणिनः।य़था व्याघ्रः, सिंहः।ये मांसमपि खादन्ति, शाकमपि खादन्ति, ते मांसाहारेषु न गणनीयाः। तेषां मिश्राहाराः प्राणिनः इति स्वतन्रादत गणना भवति, यथा कुक्कुरः, मार्जारः।
मांसाहारप्राणिनाम् एतानि लक्षणानि -
तेषाम् एतानि लक्षणानि -

  • १ दन्ताः तीक्ष्णाः।
  • २ नखानि तीक्ष्णानि।
  • ३ चर्वणम् अकृत्वा अन्नं निगिरन्ति।
  • ४ हनुसन्धिः केवलम् ऊर्ध्वं तथा अधः चलति।
  • ५ जिह्वा खरस्पर्शा
  • ६ जलपानकाले जिह्वा मुखाद् बहिः आगच्छति।
  • ७ अन्त्रस्य दैर्घ्यं न्यूनम्।प्रायः शरीरदैर्घ्यतुल्यम् अन्त्रदैर्घ्यम्।अतः भक्षितम् अन्नं अल्पेन कालेन देहाद् बहिः निःसरति।
  • ८ यकृत् तथा वृक्कौ इति एते अवयवाः विशालाः।तेन मांसाहाराद् उत्पन्नानि विषद्रव्याणि शीघ्रं तथा अनायासं शरीराद् बहिः निष्क्रमन्ति।
  • ९ जठरे हायड्रोक्लोरिक-अम्लस्य प्रमाणम् अधिकम्।तेन मांसपचनं सुकरं भवति।
  • १० देहस्थितिः अम्लप्राया।
  • ११ नवजातस्य अर्भकस्य पञ्च दिनानि यावत् दृष्टिः नास्ति।
  • १२ स्वेदः नास्ति।
  • १३ नेत्रे वर्तुलाकारे स्तः।
  • १४ रात्रौ स्पष्टतरं पश्यन्ति।
  • १५ यूथं न कुर्वन्ति।
  • १६ आघ्राणशक्तिः तीक्ष्णा।
  • १७ क्षुधाकुलाः चेत् स्वशावकान् अपि खादन्ति।

"https://sa.bharatpedia.org/index.php?title=मांसाहाराः_प्राणिनः&oldid=4384" इत्यस्माद् प्रतिप्राप्तम्