महुडी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement महुडी-नामकः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-gu, फलकम्:Lang-en) लघुग्रामः बहुप्राचीनः वर्तते । “मधुमती” इति अस्य ग्रामस्य प्राचीनं नाम आसीत् [१]। अयं ग्रामः जैनधर्मस्य एकं विशिष्टतीर्थम् अपि अस्ति । तस्मिन् ग्रामे स्थितं भगवतः घण्टाकर्णमहावीरस्य मन्दिरम् अद्भूतं विद्यते । तस्मै मन्दिराय एव अयं ग्रामः प्रसिद्धः अस्ति । अयं ग्रामः गुजरात-राज्यस्य गान्धीनगर-मण्डलस्य माणसा-उपमण्डले स्थितः अस्ति ।

भौगोलिकी स्थितिः

महुडी-ग्रामः भारतदेशस्यस्य गुजरात-राज्यस्य गान्धीनगर-मण्डलस्य माणसा-उपमण्डले स्थितः वर्तते । अस्य निर्देशाङ्कः २३ º४९ उ. एवं ७२ º७८ पू. अस्ति[२] । माणसा, गान्धीनगरं, देहगाम, कलोल, अजरपुरा, अमरपुरा, अम्बोड, आनन्दपुरा, वेडा, पिल्वाई, माणेकपुर, लाडोल च इत्यादयः महुडीग्रामस्य समीपस्थाः ग्रामाः सन्ति । अयं ग्रामः साबरमतीनद्याः १.५ कि. मी. दूरे स्थितः अस्ति ।

घण्टाकर्णमहावीर-मन्दिरस्य स्थापना

विक्रमसंवत् १९७४ तमस्य वर्षस्य (ई. स. १९१७) मार्गशीर्ष-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ अस्य मन्दिरस्य स्थापना अभवत् । महुडी-ग्रामस्य निवासिना ’श्रीवाडीलाल कालीदास वोरा’ इत्यनेन मन्दिरस्य निर्माणाय भूदानं कृतम् आसीत् । सः आचार्यबुद्धिसागरसुरीश्वरस्य अनुयायी आसीत् । आचार्यबुद्धिसागरसुरीश्वरेण “श्री महुडी जैन मूर्तिपूजक ट्रस्ट्” इति नामिकायाः एकस्याः संस्थायाः रचना कृता । तस्याः संस्थायाः संस्थापकत्वेन “श्री वाडीलाल कालीदास वोरा” इति अपि आसीत् । तेन एव प्रथमसंस्थापकत्वेन मन्दिरनिर्माणकार्यम् प्रवर्तितम् ।

महुडी-तीर्थस्य, घण्टाकर्णमहावीरमन्दिरस्य च इतिहासः

प्राचीने काले अयं ग्रामः मधुमती इति नाम्ना ख्यातः आसीत् । अस्मिन् ग्रामे बह्व्यः पुरातनाः मूर्तयः, कलात्मकावशेषाः च प्राप्यन्ते । तैः ज्ञायते यत् – अयं ग्रामः २००० वर्षप्राचीनः अस्ति[३] । महुडी-ग्रामे ब्राह्मीलिप्याः अवशेषाः अपि प्राप्यन्ते । तेन तस्य ग्रामस्य प्राचीनता अपि ज्ञायते ।

तस्मिन् ग्रामे जैनधर्मस्य मूलनायकस्य भगवतः पद्मप्रभोः मूर्तिः अस्ति । सा श्वेतवर्णीया, ५३ से. मी. उन्नता च वर्तते । तस्यां मूर्तौ भगवान् पद्मप्रभुः पद्मासनस्थितौ उपविशन् अस्ति । विक्रम संवत् १९७४ तमे वर्षे बुद्धिसागरसुरीजी-आचार्येण नूतनमन्दिरस्य निर्माणं कारितम् [४]। तस्मिन् मन्दिरे बुद्धिसागरसुरीजी-आचार्येण भगवतः पद्मप्रभोः मूर्तेः पुनस्स्थापना कृता ।

विक्रम सं. १९८० तमे वर्षे पुनः बुद्धिसागरसुरीजी-आचार्येण भगवतः घण्टाकर्णमहावीरस्य एकस्याः प्राचीनायाः प्रतिमायाः स्थापना कृता [५]। भगवतः घण्टाकर्णमहावीरस्य मूर्तिः अद्भूता अस्ति । बहवः श्रद्धालवः, तीर्थयात्रिणश्च मनःकामनासिद्ध्यर्थं भक्तिपूर्वकं तत्र गच्छन्ति ।

प्रतिवर्षम् आश्विन-मासस्य कृष्णपक्षस्य चर्तुर्दश्यां तिथौ जैनधर्मानुसारम् भगवतः घण्टाकर्णमहावीरस्य मन्दिरे जनाः उत्सवम् आचरन्ति । तस्मिन् मन्दिरे एव जनाः वार्षिकोत्सवम् अपि आमनन्ति ।

साम्प्रतं भगवतः घण्टाकर्णमहावीरमन्दिरमतिरिच्य द्विचत्वारिंशत् देवकुलिकास इत्येतेषां मन्दिरस्य पुनर्निमाणकार्यं प्रचलत् अस्ति[६]

घण्टाकर्णमहावीराय सुखडी-खाद्यम् अतीव रोचते स्म । अतः साम्प्रतमपि तत्र भक्तजनेभ्यः सुखडी-खाद्यं प्रसादरूपेण दीयते । तस्य मन्दिरस्य वैयक्तिकः भोजनालयः अस्ति । तस्मिन् भोजनालये एव सुखडी-खाद्यं निर्मीयते । किन्तु कोऽपि जनः सुखडी-खाद्यं मन्दिरात् बहिः नेतुं न शक्नोति इति भगवतः घण्टाकर्णमहावीरस्य मूर्तेः चमत्कारः[७] । मन्दिरे एव भुक्त्वा ततः निष्क्रमणं शक्यते । यदि कोऽपि जनः अस्य नियमस्य पालनं न करोति, तर्हि तया काऽपि दुर्घटना भवितुं शक्यते । सर्वेषां भक्तानां मनःकामनायाः अपि सिद्धिर्भवति ।

भगवान् घण्टाकर्णमहावीरः

भगवान् घण्टाकर्णमहावीरः जैनधर्मस्य प्रतिष्ठितः देवः वर्तते । जनानां रक्षकत्वेन पालकत्वेन च सः मन्यते । पूर्वजन्मनि तस्य जन्म क्षत्रियराजवंशे अभवत् ।तुङ्गभद्रः महाबलः वा तस्य नाम आसीत्[८] । श्रीनगरस्य सः राजा बभूव । तस्मिन् शासनकाले तेन हिमालयस्य राजवंशीयेन राज्ञा रूपेण सर्वेषां जनानां रक्षा कृता आसीत् । यदा कदापि जनाः कयाचित् समस्यया पीडिताः भवन्ति स्म, तदा सः तेषां जनानां समस्यानां निवारणं, रक्षणं च करोति स्म ।

सः सदैव दुष्टजनैः धार्मिकजनान्, ज्ञातीः, अविवाहिताः बालिकाः च रक्षति स्म । निर्दोषजनानां रक्षणार्थं तेन धनुषः, चापानां, गदायाः चेत्यादीनां शस्त्राणां प्रयोगः कृतः[९] । श्रीनगरे श्रीपर्वतः आसीत् । दूरात् अपि श्रद्धालवः तत्र यात्रायै गच्छन्ति स्म । तदा सः तेषां यात्रिणां रक्षां करोति स्म । अनेन कारणेन जनाः तस्मै महायोद्धा इति उपाधिं दत्तवन्तः । यः योद्धा भयहीनः, सः महावीरः इति । तस्मै सुखडी-इति खाद्यविशेषः बहु रोचते । गुडगोधूमघृतानां सम्मिश्रणेन सुखडी-इति नामकस्य खाद्यस्य निर्माणं भवति ।

इतिहासानुसारं ज्ञायते यत् “एकदा केचित् दुष्टजनाः निर्दोषजनान् (innocent people) पीडयन्तः आसन्, तदा घण्टाकर्णः महावीरः तान् पीडितान् जनान् रक्षितुं तैः दुष्टजनैः सह युद्धम् अकरोत् । तस्मिन् युद्धे घण्टाकर्णमहावीरस्य मृत्युरभवत्” [१०]

तस्य पुनर्जन्म अभवत् । तदा तस्य नाम घण्टाकर्णः आसीत् । द्विपञ्चाशतेषु वीरेषु सः अन्यतमः अस्ति । द्विपञ्चाशतेषु त्रिंशत्तमे क्रमाङ्के घण्टाकर्णमहावीरस्य स्थानं वर्तते [११]

घण्टाकर्णमहावीराय घण्टस्य ध्वनिः रोचते [१२]। घण्टस्य आकारः कर्णौ इव भवति, तेन तस्य नाम घण्टाकर्णः इति अभवत् । इत्थं सः घण्टाकर्णः महावीरः इति नाम्ना ख्यातः अभवत् ।

महुडी-ग्रामस्य समीपस्थानि मन्दिराणि

कोत्यार्क-मन्दिरम्

महुडी-ग्रामस्य समीपं कोत्यार्कमन्दिरम् अस्ति । इदं मन्दिरं महुडी-ग्रामत् ७०० मी. दूरं स्थितमस्ति[१३] । तस्मिन् मन्दिरे कलात्मकमूर्तिकलानां स्थापत्यं प्राचीनतमं वर्तते । तस्मिन् मन्दिरे भगवतः शान्तिनाथस्य मूर्तिः प्रतिष्ठिता अस्ति । सा मूर्तिः १३० से. मी. उन्नता अस्ति । पञ्चधातूभिः निर्मिता इयं मूर्तिः । तस्यां मूर्तौ भगवान् शान्तिनाथः पद्मासनावस्थायाम् उपविशन् अस्ति । मूर्तौ भगवतः नेत्रे रेडियम्-पदार्थेन निर्मिते स्तः[१४] । इयं मूर्तिः अत्यद्भूता अस्ति । इयं मूर्तिः केशरियाजी इति नाम्ना अपि ज्ञायते । अस्य मन्दिरस्य समीपम् एकस्मिन् पर्वते भगवतः अजितनाथस्य अपि एकं मन्दिरं स्थितमस्ति । १६० से. मी. उन्नता भगवतः अजितनाथस्य इयं मूर्तिः । कायोत्सर्गमुद्रायां भगवान् अजितनाथः उपविशन् अस्ति । इयं मूर्तिः श्वेतवर्णीया वर्तते । अनेन प्रकारेण बुद्धिसागरसुरीश्वरजी इत्यनेन भगवतः पूजा् अकारि[१५]

आग्लोद-तीर्थम्

आग्लोद-तीर्थं महुडी-ग्रामात् २९ कि. मी. दूरं स्थितमस्ति । तत्र भगवतः मूलनायकस्य वासुपूज्यस्वामिनः मन्दिरम् अस्ति । भगवतः मूर्तिः १५१ से. मी. उन्नता वर्तते [१६] । इयं श्वेतवर्णीया मूर्तिः अस्ति । अस्यां मूर्तौ भगवान् पद्मासनावस्थायाम् उपविशन् अस्ति । विक्रम सं. २०४१ तमे वर्षे आचार्यविजयभुवनसुरीश्वरजी इत्यनेन अस्य मन्दिरस्य निर्माणं कारितम् आसीत् । इदं मन्दिरं १३० फीट् उन्नतं, ८२ फीट् विस्तृतं च वर्तते[१७]

भगवतः आदीश्वरस्य मूर्तिः प्रमुखमन्दिरस्य गुप्तप्रकोष्ठे स्थापिता अस्ति । अपरं च गौतमस्वामिनः, पद्मावतीदेव्याः च मूर्तिः अन्यमन्दिरे स्थापिता अस्ति ।

श्रीघण्टाकर्ण-महावीर-आस्था-मण्डलम्

महुडी-ग्रामे यात्रिणां, भक्तानां च सुलभतायै “श्रीघण्टाकर्ण-महावीर-आस्था-मण्डल” इति नामकम् एकं स्थलम् अस्ति [१८] । तत्र अतिथिभवनम् अपि विद्यते । महुडी-ग्रामस्य समीपम् अन्यानि चत्वारि जैनतीर्थानि अपि सन्ति । तेषां तीर्थाणां दर्शनार्थं भक्तजनाः तत्र गच्छन्ति । भक्तजनेभ्यः विश्रामार्थं सौकर्यम् अपि अस्ति ।

मार्गाः

वायुमार्गः

महुडी-ग्रामस्य समीपस्थं विमानस्थानकम् अहमदाबार-महानगरे स्थितम् अस्ति । महुडी-ग्रामात् अहमदाबाद-महानगरं ६८ कि. मी. दूरं स्थितम् अस्ति ।

धूमशकटमार्गः

गान्धीनगरम्, अहमदाबाद-महानगरं च महुडी-ग्रामस्य समीपस्थं रेलस्थानकं वर्तते ।

भूमार्गः

अहमदाबाद-महानगरं भूमार्गेण महुडी-ग्रामेण सह संयोजितम् अस्ति । महुडी-ग्रामस्य समीपस्थं बसस्थानकं गान्धीनगरे स्थितम् अस्ति । ततः सरलतया महुडी-ग्रामं प्राप्तुं शक्यते ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

सन्दर्भः

फलकम्:Reflist फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=महुडी&oldid=8856" इत्यस्माद् प्रतिप्राप्तम्