महिमरङ्गनाथस्वामिपर्वतः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


महिमरङ्गनाथस्वामिपर्वतः (Mahimaranganathaswami Hill) कर्णाटकस्य तुमकूरुमण्डले विद्यमानः कश्चन पर्वतः । महिमापुरनामकः लघुग्रामः एकस्मिन् पार्श्वे हरित्क्षेत्रैः अपरे शिलोच्चयैः च आवृतः अस्ति । अत्र एव महिमरङ्गनाथस्वामिनः पर्वतः स्थितः । पर्वतस्य उपरि सुशोभितस्य महिमरङ्गनाथस्वामिनः दर्शनार्थं गन्तुं ३५० सोपानानां मार्गः निर्मितः । चोळशैल्या निर्मिते अस्मिन् प्राचीने शिलालये रङ्गनाथस्य गरुडस्य हनूमतः च विग्रहाः सन्ति । शिवगङ्गापर्वतं, हळ्ळीरङ्गनाथपर्वतं, हरिद्वर्णक्षेत्राणि च पर्वतशिखरात् दृष्टुं शक्यते ।