महम्मद् हनीफ् खान् शास्त्री

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
16-03-2019 तमे दिनाङ्के महम्मद् हनीफ् खान् शास्त्रिणे पद्मश्रीपुरस्कारं ददत् राष्ट्रपतिः रामनाथः कोविन्दः

महम्मद् हनीफ् खान् शास्त्री भारतीयः संस्कृतविद्वान्[१] सः २००९ तमे वर्षे न्याशनल् कम्यूनल् हार्मोनी पुरस्कारं प्राप्तवान्।[२][३][४][५] भारतीयसर्वकारेण २०१९ तमे वर्षे साहित्यिक-शैक्षणिकक्षेत्रे पद्मश्रीः पुरस्कारेण च सभाजितः।[६][७]

बाल्यजीवनम्

हनीफ् खानः उत्तरप्रदेेशराज्यस्य सोनभद्रा मण्डले जन्म प्राप्तवान्। [८] दूरदर्शने कस्मिंश्चित् सन्दर्शने सः वदति यत् मम परिवारे पञ्चमकक्ष्याम् उत्तीर्णः अहम् एक एव इति। तस्य गृहस्य स्थितिः अध्ययनानुकूला नासीत्। सः प्रौढशालायाम् अनुत्तीर्णः। तदा तस्य गुरुः पण्डितरतनलालशास्त्री प्रतिदिनं भगवद्गीतायाः एकम् अध्यायं पठतु इति प्रेरितवान्। एवम् आरब्धं भगवद्गीतापठनं भारतीयग्रन्थेषु तस्य रुचिम् अवर्धयत्। सः भारतीयग्रन्थान् पठित्वा तद्विषये अन्यान् बोधयति स्म च। एतेन तस्य संस्कृतपठनेऽपि रुचिः प्रवृद्धा। संस्कृतेन विना भगवद्गीतायाः तत्त्वं ग्रहीतुं न शक्यते इति सः अचिन्तयत्।[९]

शिक्षणम्

हनीफ खानः वाराणस्यां सम्पूर्णानन्दविश्वविद्यालये संस्कृते शास्त्रिपदवीं(बि.ए) आचार्यपदवीं(एम्.ए) प्राप्तवान्। तस्य ऐच्छिकविषयः पुराणम् आसीत्। ततः गायत्रीमन्त्र-सुराफेतयोः अर्थानुसन्धानपुरस्सरं तुलनात्मकम् अध्ययनम् इति विषयमधिकृत्य विद्यावारिधिपदवीं(पी.एच् डि) अपि अलभत।[२][१०]अनन्तरंराष्ट्रियसंस्कृतसंस्थाने आचार्यः(प्रोफेसर्) आसीत्।

पुस्तकानि

महम्मद् हनीफ् खानस्य अष्टौ पुस्तकानि प्रकाशितानि सन्ति। यथा-[११]

  • मोहनगीता
  • गीता एवं कुरान् में सामंजस्य
  • वेद और कुरान् से महामंत्र गायत्री और सुराह फतिहा
  • वेदों में मानवाधिखार
  • मेलजोल
  • महामंत्र गायत्री का बौद्धिक उपयोग
  • श्रीमद्भगवद्गीता और कुरान
  • विश्वबंधुत्व का प्रत्यक्ष प्रमाद

उल्लेखाः

फलकम्:Reflist