मन्यसे यदि तच्छक्यं...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
- योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
मन्यसे यदि तत् शक्यं मया द्रष्टुम् इति प्रभो योगेश्वर ततः मे त्वं दर्शय आत्मानम् अव्ययम् ॥ ४ ॥
अन्वयः
प्रभो ! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे ततः हे योगेश्वर ! त्वम् अव्ययम् आत्मानं मे दर्शय ।
शब्दार्थः
- प्रभो = ईश्वर !
- तत् = तत् रूपम्
- द्रष्टुम् = अवलोकितुम्
- मया शक्यम् इति = मया शक्यम् इति
- यदि मन्यसे = चिन्तयसि चेत्
- ततः = तर्हि
- योगेश्वर = योगेश्वर !
- अव्ययम् = अनश्वरम्
- आत्मानम् = स्वम्
- मे दर्शय = मां प्रदर्शय ।
अर्थः
श्रीकृष्ण ! तत् रूपं मया अवलोकितुं शक्यम् इति यदि चिन्तयसि तर्हि त्वं तत् अनश्वरं रूपं मां दर्शय ।