मनोविज्ञानस्य अध्ययनविधिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

मनोविज्ञानस्य अध्ययनविधिः मनोविज्ञानस्य अध्ययनपद्धतिं वर्णयति। परिभाषायाः सम्यगवबोधार्थ मनोविज्ञानस्याऽध्ययनविधीनां (Methods of the study of psychology) क्षेत्रगतविविधशाखानां सम्प्रदायानां चानुशीलनमप्यनिवार्यम्, अतो वयमिदानीमेतानेव विषयान् क्रमशो विचारयिष्यामः। प्रथमतो मनोविज्ञानाध्ययनविधिनिरूपणमावश्यकं प्रतिभाति, यतो ह्यस्य विवेचने मनोविज्ञानस्य परिभाषा विशेषतः स्फुटतरा भविष्यति। मनोविज्ञानाध्ययनार्थं के विधयः सन्ति? कानि त साधनानि? इति च प्रश्नस्य समाधानार्थमुच्यतेमनोविज्ञानं प्रमाणरूपेण मुख्यतः प्रत्यक्षमेवावलम्बते मानसप्रत्यक्षं बाह्यप्रत्यक्षं चेति। विशेषाध्ययनार्थमनुमानात्मक-प्रयोगतुलनात्मकाध्ययनमनोविश्लेषणादिभिरपि प्रचुरं साहाय्यं प्राप्नोति। अस्माभिरत्र मनोविज्ञानविधिवैशिष्ट्यमुद्दिश्य एतेषां साधनानां विशदं विवेचनमुपक्रम्यते।

(अ) मानसप्रत्यक्षम्

मानसक्रिया मनोवृत्तयोऽप्युच्यन्ते। तासामध्ययनं द्वेधा कर्तुं शक्यते। प्रथमतो मानसप्रत्यक्षेण मनोऽन्तर्गतकामक्रोधमूलप्रवृत्तीच्छाद्वेषादि वृत्तीनामध्ययनं क्रियते। द्वितीयं तु बाह्यनिरीक्षणम्, येनान्यपुरुषान्तर्गतभावप्रतिक्रिया मुखादिमुद्रादर्शनेन ज्ञायते। आन्तरभावा एव मनोवृत्तिपदेनाऽभिधीयन्ते। बाह्यप्रतिक्रिया किं वा शरीरविक्रिया व्यवहार इति पदेनोच्यन्ते। मनोगतभावानां सर्वोपरि प्रामाणिकं ज्ञानं मानसप्रत्यक्षेणैवाऽवाप्तुं शक्यते। मानसप्रत्यक्षं च प्राचीनार्वाचीनैः प्राच्यप्रतीच्यैः सर्वैरव दार्शनिकैर्मनोविज्ञानविशारदैर्मनोविज्ञानावगमार्थमवलम्बितम्। किन्तु मानसप्रत्यक्षं बुद्ध्युत्कर्षमपेक्षते। विवेकिभिरेव विद्वद्भिरिदमाश्रयितुं शक्यम्। सामान्यतो जनानां स्वगतमनोविकाराणामारोहावरोहाऽध्ययने रुचिर्न लक्ष्यते। उक्तं हि यमेन नचिकेतसं प्रति- ‘पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन्'[१] इति। धीरेण सदसद्विवेकिना आन्तरविक्रियाणामध्ययनं कुर्तुं शक्यम्। अपरञ्च सर्वं संयतेन्द्रियेणैव मानसं प्रत्यक्षं निरीक्षणं भवितुमर्हति। नितरामीक्षणं निरीक्षणमिति।

ताटस्थ्येन क्रियमाणं मनोवृत्तीनामध्ययनं निरीक्षणरूपतां प्रपद्यते। सामान्यप्रत्यक्ष तु साधारणो जनो मनःसंवेगे कामक्रोधादौ निमग्नो भवति। संवेगप्रवृत्त्यादिपूराध्ययनं संवेगतो मनाक् पृथग्भावं धैर्यमात्मनियन्त्रणं चापेक्षते। अपि च, निरीक्षणं परितो बहु पार्श्वतो वस्तुनोऽध्ययनं भवति। मनोविज्ञाने विज्ञानेतरवन्निरीक्षणमेवावलम्बनीयं भवति।

व्यवहारवादिनो वाट्सनप्रभृतयो मनोवैज्ञानिका मानसप्रत्यक्षं मनोविज्ञानसाधनं समीचीनं न मन्यन्ते। तन्मते मानसप्रत्यक्षमेकवृत्तेरपि कामादेः प्रतिपुरुषं भिन्नमेव भवति। अतो मानसं प्रत्यक्षमवलम्ब्य सार्वदेशिक: सार्वकालिक: प्रयोगोऽपि कर्तुं न शक्यते। मानसं प्रत्यक्षं बालैरपरिपक्वबुद्धिभिर्नरैरपि कर्तुं न शक्यते। तदवलम्ब्य अत एव सामान्यनियमावधारणमप्यसम्भवमेव। अपरञ्च क्रोधादिसंवेगो विगाहमान: प्रमाता यदा तटस्थीभूय संवेगाध्ययनं कर्तुमुत्सहते, तदा क्रोधादिसंवेगोत्कर्षोऽपि विलीयते, ह्रासं वा प्राप्नोति। न केवलमेतावतैव मानसप्रत्यक्षस्यासमीचीनता पारयितुं शक्यते। यदा प्रमाता स्वगतकामक्रोधादिनिरूपणमुपक्रमते, न तत्सम्यग् भवति। यतो हि स स्वप्रतिष्ठानैतिकमर्यादादिविचारशतैः प्रभावितो भवति। तेन प्रदत्तं विवरणं प्रायशश्छलेना-भ्युपेतं पुरुषतरप्रवञ्चनायैव भवति, आत्मोत्कर्षाभिव्यञ्जनाय च। अतो न मानसं प्रत्यक्षं मनोविज्ञानस्य समीचीनं साधनं विधिर्वा। अपि तु व्यवहार एव मनो विज्ञानस्य विश्वसनीयः पन्थाः। व्यवहारस्य निरीक्षणं प्रयोगश्चापि सुकरं भवति। अत एव सर्वैर्मनोविज्ञान-विशारदैर्बाह्यव्यवहाराध्ययनमेवाश्रयणीयमिति व्यवहारवादिनां मतम्। अत्रोच्यते-बाढं व्यवहारस्याध्ययनं पुरुषशरीरगतमुखादिविक्रियाणां पुरुषेतरैः सह व्यवहारस्य चाध्ययनं मनोविज्ञानस्याऽध्ययनार्थं परमावश्यकम्। अस्माभिरपि पूर्वमेव मनोविज्ञानपरिभाषाव्याख्यानावसरे एतदङ्गीकृतम्। किन्त्वनेन मानसप्रत्यक्षस्य प्रभाव आवश्यकता वा निवारयितुं न शक्यते। ननु बाह्यव्यवहारस्याऽध्ययनार्थं किं प्रतिमानम्? यद्यस्माकं मानसप्रत्यक्षसंवलितं स्वमनोगतवृत्तीनामेवाध्ययनं न भवेत्, तर्हि इतरेषां व्यवहारस्य मनःसंवेगानुगतमुखाद्याकृतिविकाराणां चाध्ययनमपि सर्वथैवासम्भाव्यं भविष्यति। साक्षान्मनोवृत्तय एव। तासां मानसप्रत्यक्षेणाऽध्ययनं व्यवहारावगमार्थं दुर्निवारम्। मानसप्रत्यक्षस्य बहिष्कारस्तु न मनोविज्ञानोत्कर्षाय भवितुमर्हति। चैतन्याऽध्ययनतिरस्कारस्त तादृगेव मौर्व्यपूर्ण कर्म भविष्यति, यादृक् तस्य बालिशस्य यो मूलमुच्छिनत्ति, शाखां च परिरक्षितुमिच्छति। व्यवहारस्य काऽपि व्याख्या, या अस्माकं स्वकीयाऽपरोक्षा नुभूत्याऽनुमोदिता न भवेत्, अस्मासु विश्वासं नावहति। मानसं प्रत्यक्षं चापरोक्षाऽनुभूतेश्चरमं विश्वसनीयं साधनम्। अत एवैतन्मनोविज्ञानाऽध्ययनविधिषु सर्वथैव परिरक्षणीयम।

ननु किं भविष्यति तासां त्रुटीनां या मानसप्रत्यक्षावसरे आपतिता भवनि मन्ये ता: सर्वा एव त्रुटयो निवारयितुं परिष्कर्तुं वा शक्या:। मनुष्यस्वभावगतवैचित्र्यमभिल पदे पदे स्खलितानि भवितुं शक्नुवन्ति। सावधानतयैव तेषां निवारणं कर्तं शव अपि चान्ये विधय: बाह्यनिरीक्षणप्रयोगादयो मानसप्रत्यक्षविधेः परिवर्धनायैव भवन्ति। अतीतकाले मानसप्रत्यक्षमेव मनोविज्ञानस्य राजपथ आसीत् किन्त्वधुना अन्य साधनान्यप्यपेक्षितानि सन्तीति विषयमधिकृत्य मनोवैज्ञानिकानां सर्वत्रैव मतैक्यं विद्यते। यद्धि उक्तं यदपरिपक्वबुद्धिभिर्बालकस्त्रीसामान्यपुरुषादिभिर्मानसं प्रत्यक्षं कर्तुं न शक्यते, तत्तु अधिकतमांशे समीचीनमेव। नास्त्यत्र सन्देहो यद तथैव वयं कस्मिंश्चिदपि क्रोधादिसंवेगे मानसप्रत्यक्षेणाऽवगाहितुमिच्छामः, तस्मिन्नेव क्षणे क्रोधादिसंवेगो ह्रासोन्मुखो दृश्यते। अस्मिन् विषये यदि मनागपि सावधानता भवेत्तर्हि या काचिदपि स्खलिताशङ्का भवेत् साऽपि वारयितुं शक्या। अपि च तस्या एव मनोवृत्तेरन्यस्मिन् काले स्थानान्तरे च पुनः निरीक्षणं न केनाऽपि निवारितम्।

(आ) बाह्यनिरीक्षणम्

दैनिकजीवनस्य विविधपरिस्थितिष्वन्येषां पुरुषाणां मनसां मुखाद्याकृति-भेदेन, शब्दाभिव्यक्तहृदयोद्गारैर्वा, प्रतिक्रियारूपव्यवहारेण वा, यदध्ययनं भवति तद् बाह्यनिरीक्षणमिति नाम्नावगम्यते। मानसं प्रत्यक्षन्तु प्रायो निरीक्षणमेव भवति, यतो यदा मनोवृत्तयो ज्ञानविषयकोटिं लभन्ते, तदा ताटस्थ्यभावोऽनिवार्य एव भवति। किन्तु मनोवैज्ञानिकाय बाह्यव्यवहारस्याऽध्ययने ताटस्थभावस्य महत्तरापेक्षा भवति। ताटस्थ्यभावादृते निष्पक्षं मनोवैज्ञानिकतथ्यसङ्कलनं न सम्भवति। यदा मनोवैज्ञानिको बालकानामध्ययनं करोति, तदा मनोवैज्ञानिकबालकयोर्मानसिकस्तरभेदो विद्यते। सम्यगध्ययनार्थं बालकस्य मानसिकस्तरे स्थित्वैव तस्य मनोगतविकाराणां व्यवहाराऽभिव्यक्तानां ज्ञानं कर्तुं शक्यते। अपि चेदमपि स्मरणीयमत्र यन्मनोवैज्ञानिक स्योपस्थित्या बालकस्य व्यवहारे कापि कृत्रिमता न प्रविशेत्। अतस्तेषामध्ययनं स्वकीयं व्यक्तित्वं मनोरथं चाप्रकटयित्वा यदि भवेत्, तर्हि तेषां व्यवहारे कृत्रिमतालेश निरासो भवितुमर्हति। अस्य नियमस्य पालनं मनोविश्लेषणविधावपि करणीयम्।

(इ) प्रयोगः

वस्तुतः प्रयोगः, तुलनात्मकमध्ययनम्, मनोविश्लेषणं चेति त्रयोऽन्ये विधयो बाह्यनिरीक्षणस्य प्रकारभेदाः सन्ति। प्रयोगस्य प्रयोगात्मकनिरीक्षणस्येदमेव वैशिष्ट्यं सामान्यान्निरीक्षणाद् यदत्र पूर्वनिर्दिष्टपरिस्थितौ व्यक्तेः पशोर्वा प्रतिक्रियात्मक व्यवहारस्य निरीक्षणं भवति। प्रयोगात्मकं निरीक्षणं प्रयोगशालामावश्यकयन्त्रादिसाधनानि चापेक्षते। प्रयोगात्मके निरीक्षणे व्यक्तेः प्रतिक्रियाणां सुसूक्ष्मतमसंख्याकमाकलनं सम्भवति। यथा हि कस्यचिदुत्तेजकपदार्थस्य' ध्यानभङ्गक्षमता किं वा चित्तैकाग्ये विरोधिप्रभाव: प्रयोगात्मकनिरीक्षणेनैवावधारयितुं शक्यते। अथवा स्मरणक्रियाया उपरि श्रमक्लान्तिप्रभावः सम्यक् परिस्थितिनियमनपुर:सरेण प्रयोगात्मकनिरीक्षणेन सुसूक्ष्मसंख्याकाकलनानुमापसंवलितेनैव निश्चेतुं शक्यते। प्रयोगे तु पदे पदे प्राप्तपरिणामा कानामनुलेखः क्रियते, येन यथासम्भवं त्रुट्यवकाशनिवारणं सुकरं भवेत्।

(ई) तुलनात्मकमध्ययनम्

अयं विधिर्बाह्यनिरीक्षणाऽभिन्न एव। परन्तु अस्त्यस्यैकं वैशिष्ट्यम्। वयमत्र पशूनां तिरश्चाञ्च स्वभावस्य सम्यगध्ययनं कृत्वा मनुष्याणां व्यवहारस्य स्वभावस्य गतिविधि तुलनात्मकेनाऽध्ययनेन निर्धारितुं शक्नुमः। पशुमनोविज्ञानं मनुष्याणां मानसिकरहस्योद्घाटनवेलायामतीव सहायकं भवति, यतो हि पशूनां व्यवहारः प्रायश: सरलतरो निम्नस्तरीयः पुरुषव्यवहारापेक्षयाऽधिकतरं प्रकृतिप्रदत्तमूलप्रवृत्त्याद्यनुसारी भवति। पशुस्वभावे वयं मूलप्रवृत्तीनां साधारणाऽध्ययन प्रकाराणां च वातावरणानुकूलप्राप्तिसाधनानां च सर्वोपरिबोधगम्य मौलिकमादर्शरूपं लभामहे। मनुष्याणां स्वभावो व्यवहारश्च प्रायश: शिक्षासंस्कृतो जटिलतर: प्रौढिं गतः सभ्यताशिष्टाचारप्रभावविकृतो दरीदृश्यते। बालकेष्वपि तस्य मौलिकं स्वरूपं दुर्लभमेव, वयस्कानां तु जनानां वार्ता कुत:? उदाहरणत: प्रतिद्वन्द्विनं दृष्ट्वा वृषभो रणायाऽञ्जसोद्यतो भवति, किन्तु सभ्य: पुरुषोवैरिणमवमन्तारं वा दृष्ट्वा सहसा मनोगतां प्रतिक्रियां न प्रकाशयति। विचारानुरूढां नीतिं गृह्णाति, प्रतिपक्षि प्रतिहिंसा) न्यायालयेऽभियोगं प्रवर्तयति। अपरञ्च पशव: कामोद्वेगं सोढुं न शक्नुवन्ति, किन्तु शिष्टाचारसम्पन्न: पुरुषो यथावसरं यथापात्रमेव रहसि कामपूर्त्यर्थं प्रवर्तते। महर्षिदधीचिवन्महामुनिसुकरातवद्वा आदर्शानुप्राणितो नरो हसन्नेव स्वप्राणान् त्यक्तुं समर्थो भवति। न तु तथा पशवः येषां प्राणरक्षणात्मिका मूलप्रवृत्तिरत्युग्रतरा भवति, यैश्च लोकसङ्ग्रहार्थं सत्यनिष्ठायै वा प्राणत्यागस्य पाठः कुत्रापि न गृहीतः। अत एव पशुमनोविज्ञानाध्ययनसहाय्येन तुलनात्मकसरणिं गृहीत्वा मानुषीयं मनोविज्ञानं सुबोधतरं भवतीति नास्यत्र शङ्कावकाशः। स्मरणीयमत्र यन्मनुष्यो मूलतः पशुरेव। अस्ति चोभयोर्महत्साम्यम्। तथा हि "आहारनिद्राभयमैथुनञ्च सामान्यमेतत्पशुभिर्नराणाम्” इति।

तुलनात्मकमध्ययनमन्यक्षेत्रेष्वपि निरीक्षणसौकर्यमावहति। उदाहरणतो जातिभेद शास्त्र' मानवविकासविज्ञानं च यन्मनोविकासस्य प्रारम्भिकविकासोन्मुखावस्थासु रूपमुद्धाटयतः, तन्मानवमनः स्वरूपावधारणे सुमहदुपकारकं सिद्ध्यति। जातिभेदशास्त्रं तु मनुष्याणां विभिन्न देशस्थजातीनां भेदस्वरूपवैशिष्ट्योद्गमप्रासारमिश्रणादिसमन्वितं शास्त्रीय विवेचनं शास्त्रीयपद्धत्या प्रकरुते। मानवविकासविज्ञानमपि मानवस्य प्रागैतिहासिक कालादारभ्य अद्यावधि सामाजिकविकासं गवेषणालक्ष्यं करोति। मानवविकासविज्ञानमेव असभ्यार्धसभ्यवन्यजातिचरित्रादारभ्य विविधसामाजिकसंस्थाविकासानुगतमानवायसस्कृत बौद्धिकविकासस्य साहोपातुं शकलाबद्धमितिहासमुत्खननादिप्रक्रियाद्वारणान्वषयात। सुविदितमेवेदं तथ्यं सर्वेषां मानवानां यद्धि शैशवं प्रौढचरित्रस्योषो भवति, पूर्वानुगामि भवति। एवमेव सभ्यमानवस्य पूर्ववर्तिनोऽसभ्या वन्यमानुषद्रविडादिजातय एवासन्। तेषां स्वभावाचरणादिगवेषणायां सत्यां मनोविज्ञानस्याऽपि कासाञ्चिज्जटिलसमस्यानामध्ययनं सुकरं भविष्यतीति नास्त्यत्र सन्देहः ।

(उ) मनोविश्लेषणम्

मनस: सामान्याऽवस्थानां ज्ञानं मनोविश्लेषणादिभि: साधनैः सम्पाद्यते। यद्यपि निरीक्षणेनाऽप्यसामान्याऽवस्थानामध्ययनं महदुपकारकं भवति, यतो ह्यनेन स्वस्थमनुष्याणां व्यवहारावगमः परम्परया, न तु साक्षात्, ज्ञातुं शक्यते। किन्त्वसामान्यावस्थानां विक्षिप्तोन्मत्ताद्यानामध्ययनं दुष्करं भवति। तासामवस्थानां निदानं स्वरूपं चिकित्सा च कुशलमनोवैज्ञानिकैर्मनोविश्लेषणादिभिरुपायैरवगन्तं शक्यन्ते। अर्वाचीनमनोविज्ञानस्य सप्ततिवर्षपरिमिते काले यादृशी समुन्नति: सञ्जाता, विज्ञानपरिषदि यादृशं च गौरवान्वितं स्थानं मनोविज्ञानेनार्जितम्, तस्य श्रेयोऽसामान्यमनोविज्ञानाय नाल्पतरमस्ति। असामान्यमनोविज्ञानेन उन्मत्तविक्षिप्तादिपुरुषाणांता मनोऽवस्थास्तज्जनितवि क्रियाश्च गवेष्यन्ते, यासां ज्ञानं तोषामपि न भवति, यासाञ्च ज्ञानं साधारणनिरीक्षणविधिनां प्राप्तुं प्रायशोऽसम्भवमेव। मनोवैज्ञानिकोऽतीतजीवनवृत्तेतिहासाध्ययनेन, सम्मोहनेन, मनोविश्लेषणेन विक्षिप्तस्यान्तर्गतान् भावानुद्घाटयति, तेषां च बाह्याऽसामान्यव्यवहारेण साकं कारणकार्यभावसम्बन्धं निश्चिनोति। अनेन तासामवस्थानां प्रतीकारोऽपि स्करो भवति। वयमग्रे इमं विधि विस्तरतो विवेचयिष्यामः। अयं विधिर्न केवलं विक्षिप्तानामध्ययनार्थमेव प्रयुज्यते, किन्तु जटिलबालकान्, येषां व्यवहारोऽन्यबालकेभ्यो विलक्षणो दुर्बोधश्च भवति, सन्मार्ग प्रत्यानेतुमप्याधुनिकैर्मनोविज्ञानविशारदैः प्रचुरतया आश्रीयते। उक्तं ह्यस्माभिर्यन्मनोवैज्ञानिकशिरोलङ्कारभूताः फ्रायड्महोदया जाग्रत्स्वप्न सुषुप्तिभ्योऽतिरिक्तं मनसोऽवस्थाद्वयमपि स्वीकुर्वन्ति-वासनाऽवस्था, संस्कारावस्था चेति। वासनावस्था तु अचेतनावस्थाऽभिन्नैव। तथापि साऽस्माभिर्मनोऽवस्था स्वीक्रियत एव, यतो हि तस्या अपरिमितप्रभावो यद्यपि जाग्रद्दशायां न दृष्टिगोचरो भवति, तथापि विक्षिप्ताद्यसामान्यास्ववस्थासु प्रचुरं दरीदृश्यते। संस्कारावस्थाप्यर्धचैतन्या ऽवस्था, किं वा निम्नस्तरीया चैतन्यावस्था। साऽपि जाग्रद्दशायां न दृष्टिगोचरीभवति, किन्तु स्वप्नेषु स्वकीयं प्रभावं द्योतयति। एकान्तविश्रामे स्वगतवार्तास्वपि कदाचित्तस्याः क्रियाकलापं ज्ञातुं शक्यते। विशेषत एतयोरेव चैतन्यावस्थयोः सम्यक्परिज्ञानार्थं मनोविश्लेषणसम्मोहनादीनि साधनानि प्रयुज्यन्ते। अलमतिविस्तरेण।

सम्बद्धाः लेखाः

उद्धरणानि

फलकम्:Reflist

  1. कठोपनिषद् २।१।१।