मनमोहन सिंह

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु

फलकम्:Infobox officeholder

बाल्यजीवनं शिक्षणं गौरवाणि च

पूर्वम् आङ्ग्लशासितपञ्जाबप्रान्ते गाह इत्यत्र (साम्प्रतं पाकिस्तानमध्ये चतवाल् जनपदे) सिक्खखत्री परिवारे १९३२ तमे वर्षे २६ सप्टेम्बरदिनाङ्के गुरुमुखसिंह -अमृतकौरदम्पत्योः श्री मनमोहनसिंहः जातः .[१]। यदा सः अल्पायुरासीत् तदैव मात्रा वियुक्तः अभवत्। पितामह्या पोषितः ।अतः सः तस्याः अतीव निकटवर्ती आसीत् । भारतदेशस्य विभाजनस्य पश्चात् तस्य परिवारः भारते अमृतसरं प्रति स्थानान्तरितः अभवत् । तत्र सः हिन्दुमहाविद्यालये अपठत् । सः चण्डीगढस्थितं पञ्जाबविश्वाविद्यालयं प्रविश्य अर्थशास्त्रमधीतवान्। तथैव क्रमेण १९५२, तथा १९५४ मध्ये स्नातकपदवीं स्नातकोत्तरपदवीं च प्राप्नोत् । तस्य विद्यार्जनकाले सः सदैव सर्वप्रथमः आसीत् । अनन्तरम् अर्थशास्त्रस्य ट्रायपास-अभ्यासक्रमं पठितुं सेण्ट्-जान्-महाविद्यालयं प्राविशत् । १९५५ तः१९५७ वर्षपर्यन्तं कृतस्य विशेषयोग्यतासम्पादनस्य निमित्तम् सः राइट्स् पुरस्कारं प्राप्तवान् । तथैव रेनबरीछात्रवृत्तेः ये कतिपयाः एव प्रतिग्राहकाः(स्वीकर्तारः) आसन् तेषु सः अन्यतमः अभवत् । आक्सफर्डविश्वविद्यालयस्य नफील्ड् महाविद्यालयस्य सः सदस्यः आसीत् । तेन तत्कृते प्रस्तुतस्य शोधप्रबन्धस्य शीर्षकम् एवम् आसीत् -"१९५१-६० कालावधौ भारतस्य निर्यातनिष्पादनम् -निर्यातप्रत्याशाः-नीति-विवक्षाः च। (India's export performance, 1951-960, export prospects and policy implications .) [२]। डा. IMD Little (आ एम् डी लिटल्) तस्य प्रबन्धस्य अधीक्षकः आसीत् । अनन्तरम् अयमेव प्रबन्धः 'भारतस्य निर्यातप्रवृत्तयः -स्वसंवार्धितवृद्धये प्रत्याशाः च' इति नाम्ना पुस्तकत्वेन प्रकाशितः । १९९७ मध्ये अलबर्टाविश्वविद्यालयेन सः विधिज्ञानविषये गौरवडाक्टरेट्-पदव्या सम्मानितः । जुलै २००५ मध्ये आकसफर्डविश्वविद्यालयः तस्मै व्यवहारविधिज्ञानविषये गौरवडाक्टरेट्-पदव्या सम्मानितः । अक्टोबर २००५ मध्ये केम्ब्रिड्जविश्वविद्यालयेन अपि तस्मै स एव सम्मानः दत्तः। " डा. मनमोहनसिंहछात्रवृत्तिः" इति तस्य नाम्ना PhD छत्रवृत्तिम् आरभ्य सेण्ट जान् महाविद्यालयेन सः सम्मानितः । २००८ मध्ये सः बनारस् हिन्दुविश्वविद्यालयेन Doctor of Letters इति मानदपदव्या अलङ्कृतः । तस्मिन्नेव वर्षे मद्रासविश्वविद्यालयः अपि तस्मै गौरवPhD पदवीम् अददात् । २०१० मध्ये किङ्ग् सौद् विश्वविद्यालयेन तस्मै मानदPhD पदवी दत्ता । पी.हेच्.डी प्रबन्धकार्यं समाप्य श्रीमनमोहनसिंहः १९६६ -६९ पर्यंतं संयुक्तराष्ट्रसंघस्य वाणिज्यविकाससङ्घटनायाः कृते कायरतः आसीत् ।१९७० दशके सः देहलीविश्वविद्यालये अध्यापनकार्यमकरोत् । पूर्वं केन्द्रीयविदेशवाणिज्यमन्त्रिणा श्रीललितनारायणमिश्रमहोदयेन सह सः विदेशवाणिज्यमन्त्रालये सेवारतः आसीत् । विदेशवाणिज्यमन्त्री श्रीललितनारायणमिश्रा सर्वप्रथमः मन्त्री आसीत् येन मनमोहनसिंहमहोदयस्य अर्थशास्त्रे प्रतिभा अभ्यवज्ञाता । श्रीमिश्रा तं विदेशवाणिज्यमन्त्रालये 'विमर्शदाता’ इति नियुक्तवान् । (पूर्वं श्रीमिश्रा, सान्तियागो, चिली इत्येतयोः स्थानयोः संयुक्तराष्ट्रसङ्घस्य वाणिज्यविकाससङ्घटनायाः सभायां भागं वोढुं विमानेन गच्छन्नासीत् तदा योगयोगेन श्रीमनमोहनसिंहमहोदयस्य मेलनम् अभवत् ।) १९८२ मध्ये श्री मनमोहनसिंहमहोदयः भारतीयरिझर्ववित्तकोषस्य गवर्नरपदे नियुक्तः । स १९८५ पर्यन्तं तत्पदं धारयामास । ततः १९८५ ते १९८७ पर्यन्तं योजना-आयोगस्य उपाध्यक्षोऽभवत् । १९८७ तः १९९० पर्यन्तं स्विट्झरल्याण्डस्य जिनीवा इत्यत्र यस्य मुख्यालयः आसीत् तस्य दक्षिण-आयोगस्य सः महासचिवः अभूत् । अयम् आयोगः आर्थिकनीति- विषयकचिन्तनस्य स्वतन्त्रः आगरः आसीत् ।

राजनीतेः पूर्वानुभवः

भारतस्य वित्तमन्त्री -१९९१ मध्ये तत्कालीनः प्रधानमन्त्री श्री.पी.वी.नरसिंहरावः श्री मनमोहनसिंहमहोदयं वित्तमन्त्री इति अचिनोत् । तस्मिन्समये भारतस्य धनसम्बन्धि अपूर्यत्वम् अस्माकं स्थूलगृहोत्पादनस्य ८.५ प्रतिशतम् आसीत् तथैव देयादेयसमीकरणे अपि महत् अपूर्णत्वम् आसीत् । प्रचलत्यां लेखागणनायाम् अपूर्णत्वमपि स्थूलगृहोत्पादनस्य ३.५ प्रतिशतस्य समीपम् आसीत् [३][४]। भारतस्य विदेशमुद्रासञ्चयः अपि एक-अब्जं यू. एस् डालर्समात्रम् आसीत् । सः निधिः केवलं कतिचित् सप्ताहानाम् आयातानां शुल्कपूर्तये मात्रं पर्याप्तम् आसीत् । तत्तुलनया अद्य तु स एव निधिः २८३ अब्ज यू एस् डालर्स् अस्ति। भारतस्य पुरतः आर्थिकसङ्कटमस्ति । एवं सति भारतप्रशासनेन अन्तार्राष्ट्रियवित्तकोशात् साहाय्यम् अभियाचितम् । तेन कोशेन आर्थिकसाहाय्यं तु कृतं तथापि भारतस्य आर्थिकनीतिमुद्दिश्य बहवः निर्बन्धाः निविष्टाः तेन । परिणामतः वित्तकोशेन आदिष्टनीत्यनुसारेण अस्माकं यत् सर्वव्यापि अनुज्ञप्तिशासनम्(अनुज्ञप्तिप्रणाली) आसीत् तत् परिहर्तव्यमभवत् । अपि च भारतस्य अर्थव्यव्स्थां प्रशासनाधीनां कर्तुं यः प्रयत्नः आसीत् तस्यापि समाप्तिः आवश्यकी अभवत् । तदनुसृत्य एतावत्पर्यन्तं भारतस्य समाजोन्मुख अर्थव्यवस्थायाः अधिकतमः प्रभावी शिल्पी श्री मनमोहनमनमोहनसिंहमहोदयः शनैः विदेशीनिवेशार्थं व्यवसायक्षेत्रे स्पर्धायै च द्वाराणि उद्घाटितवान् [५]। श्रीनरसिंहरावमहोदयः, श्रीसिंहमहोदयश्च तादॄर्शीनां नीतीनां कार्यान्वयनमकुरुतां येन अर्थव्यवस्था निरर्गला अभवत् अस्माकं समाजोन्मुखी अर्थनीतिः धनिकानुकूलया नीत्या परिवर्तिता । एवं च एतावत्पर्यन्तं येन अनुज्ञाप्तिशासनेन वैयक्तिकव्यवसायानां समृद्धिः बाधिता आसीत् सा नष्टा । तौ उभौ विदेशीनिवेशस्य मार्गे ये विघ्नाः आसन् तान्दूरीकृत्य सार्वजनिक-उपक्रमानां निजीकरणस्य क्रमं प्रारब्धवन्तौ (प्रारभताम्)। एतेषु संशोधनेषु सत्सु अपि १९९६ मध्ये रावप्रशासनम् अन्येषु क्षेत्रेषु सम्यक् निष्पादनाभावे पराजितम् । चिरकालीनः केन्द्रीयमन्त्री श्री चिदम्बरं भारतस्य अर्थव्यवस्थां विपणोन्मुखार्थिकनीत्यां परिणमयितुं श्री मनमोहनसिंहः प्रचोदितवान् इति। तं भारतस्य 'डेङ्ग क्झिआओपिङ्ग 'इति प्रशंसया सम्बोधितवान् । १९९३ मध्ये १.८ अर्बुद यू एस् डालर्स् प्रतिभूत्याः अपवादं प्रागेव अपेक्षितुं वित्तमन्त्रालयः असमर्थः अभवत् इति संसदीयान्वेषणसमितेः अभिवेदने वित्तमन्त्रालयस्य भर्त्सना कृता। अतः श्री मनमोहनसिंहमहोदयः वित्तमन्त्रीपदस्य त्यागपत्रं दातुमुद्युक्तः । तथापि प्रधानमन्त्री श्री रावमहोदयः तस्य त्यागपत्रं न स्वीकृतवान् प्रत्युत अभिवेदने येषामुपरि दोषारोपाः आसन् तान् व्याक्तिशः दण्डयितुमभिवचनं ददौ ।

राज्यसभायां चर्या

श्री मनमोहनसिंहमहोदयः आदौ १९९१ मध्ये संसदः वरिष्ठसदने राज्यसभायाः कृते निर्वाचितः । २००१, २००७ मध्ये च सः पुनर्निर्वाचितः । १९९८-२००४ पर्यन्तं यदा भारतीयजनतापक्षः सत्तारुढः आसीत् तदा श्री मनमोहनसिंहमहोदयः राज्यसभायां विपक्षस्य नेता आसीत् । १९९९ मध्ये सः लोकसभासदस्यत्वाय दक्षिणदेहलीतः प्रत्याशी आसीत् परं सः जेतुम् असमर्थोऽभूत्।

प्रधानमन्त्रीपदम्

आर्थिकनीतिः-

१९९१ मध्ये केन्द्रीयार्थमन्त्रिपदं धारयन् श्री मनमोहनसिंहमहोदयः यत् 'अनुज्ञप्तिशासनं’ भारतस्य मन्दार्थिकप्रगतेः तथा च दशकेभ्यः अर्थव्यवस्थां प्रविष्टस्य भ्रष्ट्राचारस्य कारणमासीत् । तस्मात् आन्तराष्ट्रियवित्तकोशस्य सूचनानुसारं, तस्य मोचनं कृतवान् । विकासस्य वेगं नाटकीयरीत्या वर्धयितुं सः अर्थव्यवस्थाम् अनर्गलामकरोत् । सः भारतीयविपण्याम् आर्थिकवृद्धिं प्रोत्साहयितुं यत्नशीलः आसीत्, एतेषु विषयेषु सः सर्वाधिकं यशः अपि समपादयत् । श्रीमनमोहनसिंहमहोदयः यदा भारतीयार्थव्यवस्था ८-९ प्रतिशतं आर्थिकवृद्धिम् प्राप्नोत् तदा, पूर्ववित्तमन्त्रिणा श्री चिदम्बरम् महोदयेन सह तस्याः साक्षीभूतः अभवत् । भारतेन स्थूलगृहोत्पादनस्य ७ प्रतिशतं प्रमाणेन उच्चस्तरः सम्पादितः । जगति वेगेन वर्धमानासु प्रमुखासु आर्थिकव्यवस्थासु भारतदेशस्य व्यवस्था अन्यतमा।

द्वितीयक्रमाङ्के स्थितः

जागतिकविपणीषु भारतीयवस्तूनां प्रवेशाय तथैव महतः दारिद्य्रात् मोचयितुम् अस्माकं विशाला श्रमिकक्षमतायाः उपयोगः एकः एव मार्गः (स एव अवलम्बनीयः) इति विचिन्त्य श्री मनमोहनसिंहः इदानीं जागतिकीकरणस्य बलवान् समर्थकः अस्ति । वाजपेयी प्रशासनेन प्रारब्धा सुवर्णचतुष्पथयोजना तथैव राष्ट्रियमार्गाणाम् आधुनिकीकरणकार्यक्रमः च सिंहप्रशासनेन प्रवर्तमानौ स्तः । श्री मनमोहनसिंहमहोदयः ब्याङ्किङ्ग(वित्तकोशक्षेत्रे) क्षेत्रे, आर्थिकक्षेत्रे तथैव सार्वजनिक-उपक्रमाणामक्षेत्रे अपि शोधनं कुर्वन्नस्ति । अर्थमन्त्रालयः कृषकान् तेषां ऋणात् मोचयितुं कार्यरतः अस्ति । उद्योगोन्मुखनीतयः कल्पयन् अस्ति । २००५ मध्ये सिंहसर्वकारेण विक्रयणकर- स्थाने मूल्यान्वितकरः प्रवर्तितः । २००७ तथा २००८ वर्षयोः पूर्वार्धे जागतिकमुद्रास्फितिसमस्यायाः परिणामः भारतस्योपरि सञ्जातः।

स्वास्थ्यरक्षणं एव शिक्षा

२००५ मध्ये प्रधानमन्त्री श्रीमनमोहनसिंहमहोदयः स्वास्थ्यमन्त्रालयः च सम्भूय राष्ट्रियग्रामीणस्वास्थ्य-अभियानम् आरब्धवन्तौ। तेन लक्षशः समाज(समुदाय)सेवकाः कार्यप्रवृत्ताः । जेफ्री साक्स् इति अमेरिकीयेन अर्थशास्त्रज्ञेन अयं ग्रामीणः स्वास्थ्य-उपक्रमः चालितः । २००६ मध्ये सिंहप्रशासनेन अन्य-अनुसूचितजातीनां कृते अखिल-भारत-आयुर्विज्ञान-संस्थायां, भारतीय-तंत्रज्ञान-संस्थासु, भारतीय-व्यवस्थापन-संस्थासु एवं च अन्यासु केन्द्रीय-उच्चशिक्षणसंस्थासु २७% प्रतिशतं आरक्षणस्य प्रस्तावस्य कार्यान्वयनं कृतम् । तेन २००६ मध्ये आरक्षणविरुद्धं निषेधपराणि आन्दोलनानि जातानि, आरक्षणस्य विरोधे निषेधः प्रकटितः। श्री मनमोहनसिंहमहोदयः घोषितवान् यत् 'आन्ध्रप्रदेश-बिहार-गुजरात-ओरिसा-पञ्जाब-मध्यप्रदेश-राजास्थान-हिमाचल-प्रदेशेषु अष्ट अतिरिक्ताः भारतीय-तंत्रज्ञान-संस्थाः स्थापयिष्यन्ते इति । तस्य पूर्ववर्तिना श्री अटलबिहारीवाजपेयीमहोदयेन प्रारब्धं सर्वशिक्षा- अभियानकार्यक्रमं सिंहप्रशासनं प्रवर्तमानम् अस्ति । निरक्षरतां दूरीकर्तुं, मध्याह्नभोजनस्य प्रवर्तनं, तस्मिन् संशोधनं, भारते सर्वत्र, विशेषरुपेण ग्रामीणक्षेत्रेषु नूतनानां पाठशालानां स्थापना इत्यादीनां समावेशः अस्मिन् कार्यक्रमे अस्ति।

सुरक्षा गृहव्यवहारः च

आतङ्कविरोधि-अधिनियमानां दृढीकरणाय सिंहप्रशासनमेव कारणीभूतम् । तदर्थं पोटा अधिनियमस्य प्रावधानाः UAPA अधिनियमे पुनः समाविश्य संशोधनं कृतम् । टीकाकारणां मतेन एतैः संशोधनैः अयम् अधिनियमः कठोरतरः अभवत् । नोवेमबर २००८ वर्षे मुम्बयीनगरे आतङ्ककवादीनाम् आक्रमणानि अभवन् तदा आतङ्कवादं प्रत्तिरोद्धुं (तेन प्रतियोद्धुं) केन्द्रीयव्यवस्थायाः आवश्यकताम् अवगम्य शीघ्रमेव NIA स्थापितः। अपि च २०००९ मध्ये राष्ट्रियसुरक्षाव्यवस्थां दृढीकर्तुं (वर्धयितुं), इ (इलेक्ट्रानिक) प्रशासनं सुकरं कर्तुं च बहूद्देशीय राष्ट्रिय-अभिज्ञानपत्रस्य कल्पनायाः कार्यान्वयनार्थं फेब्रुवरी २००९ मध्ये अपूर्वस्य भारतीय-अभिज्ञानप्राधिकरणस्य स्थापना कृता (Unique identification Authority of India)। एते उपायाः आरक्षकराज्यप्रतिष्ठापनाय साहाय्यकराः अनुकूलाः भवेयुः इति मानवाधिकारसंस्थाभिः सिंहप्रशासनस्य निन्दा कृता । पूर्वभारते तथा मध्यभारते ग्रामीण क्षेत्रेषु भयं जनयन्तं नक्सलानाम् आतङ्कं न्य़ूनीकर्तुम् असमर्थमभवदिति सिंहप्रशासनस्य भर्त्सनं कृतम् । सिंहप्रशासनेन तथापि इस्लामी आतङ्कवादीगणस्य निन्दापात्रमभवत्। विद्यार्थिनां भारतीय-इस्लामिक-आन्दोलन- सङ्घटनं प्रति निषेधादेशः विस्तारितः। काश्मीरप्रदेशे स्थैर्यं स्थापयितुं सिंहप्रशासनेन महान् पुनर्निर्माणकार्यक्रमः प्रारब्धः । परं यद्यपि आदौ किञ्चित् यशः प्राप्तं तथापि २००९ तः काश्मीरमध्ये राजद्रोहिणाम् आगन्तुकानाम् अनधिकृतप्रवेशः आतङ्कवादश्च वर्धितौ । तथापि उत्तरपूर्वभारते आतङ्कवादं न्यूनीकर्तुं सिंहप्रशासनं सफलीभूतमस्ति ।

सार्वजनिकी प्रतिमा

एतत् सदैव सर्वश्रुतं यत् श्री मनमोहनसिंहः स्वच्छचारित्र्यवान् उच्चप्रतिभावान् च अस्ति इति । सः मितभाषी इति ज्ञातमेव । भारतस्य विपणीषु उपलभ्यमानेषु भारतस्य सर्वेषु कारयानेषु अतिसामान्यं मारुति ८०० कारयानं सः चालयति इति दृष्ट्वा The Independent इति पत्रिकया श्री मनमोहनसिंहः एवं वर्णितः " अयं जगतः पूज्यतमेषु अन्यतमः नेता अस्ति " तथैव असामान्यतया सभ्यः शालीनः पुरुषः " इति । ख्यातनामः खुशवन्तसिंहः अपि 'जवाहरलालनेहरुमहोदयात् अपि श्रेष्ठतरः’ इति निरुपयन् मनमोहनसिंहमहोदयः अद्यपर्यन्तं भारतस्य श्रेष्ठतमः उत्तमः प्रधानमन्त्री इति तस्य प्रशंसामकरोत् । "Absolute Khushwant " The low Down on Life, Death and Most things in -between' इति।स्वस्य पुस्तके श्री खुशवंतसिंहः एकां घटनां वदति 'लोकसभायाः निर्वाचने पराजितः श्री मनमोहनसिंहः ट्याक्सीयानानां कृते यू एस डालर् ४५०० (लक्षद्वयरुप्यकाणि) ऋणं यत् स्वीचकार तत् तत्क्षणमेव सः न्यवर्तयत् । श्री खुशवतसिंहः श्री सिंहमहोदयं शुचिचारित्र्यस्य उत्तमम् उदाहरणम् इति अभिधाय प्रतिपादितवान् यत् 'यदा जनाः शुचित्वविषये वदन्ति तदा अहं यः देशस्य उच्चतमं पदं भूषयन्नस्ति स एव शुचित्वस्य उत्तमम् उदाहरणम् इति कथयामि 'इति । तथापि जून २०११ मध्ये तस्य प्रशासनं प्रति भ्रष्टाचारस्य आरोपानन्तरं तस्य लोकप्रतिमा मलिनीभूता ।

वैयक्तिकजीवनम्

श्री सिंह १९५८ मध्ये गुरुशरणकौरं परिणीतवान् । तयोः तिस्रः अपि पुत्र्यः निजक्षेत्रे स्वस्वचर्यासु यशस्विन्यः सन्ति । श्रीमती उपिन्दरसिंह देहलीविश्वविद्यालये इतिहासस्य प्राध्यापिका अस्ति । सा षट् पुस्तकानि लिखितवती । एतेषु पुस्तकेषु " Ancient Delhi (1999)" " A history of Ancient and early Medieval India (2008)" अपि समाविष्टे । श्रीमती दमन् सिंह देहली स्थितस्य सेण्ट स्टीफेन् महाविद्यालयस्य, गुजरातमध्ये आणन्द इत्यत्र स्थितस्य ग्रामीणव्यवस्थापनसंस्थायाः च स्नातका अस्ति । 'The last Frontier people and Forests in Mizoram' तथा 'Nine by Nine' इति कादम्बर्याः लेखिका अस्ति सा । श्रीमती अमृता सिंह 'ACLU इत्यत्र अधिवक्त्री अस्ति । सिंहमहोदयस्य बहवः हृदयशस्त्रक्रियाः संजाताः ।तासु जानेवरी २००९ मध्ये जाता चिकित्सा नूतनतमा अस्ति। श्री मनमोहनसिंहः तस्य पत्नी च उभावपि कोहलीजातीयौ। तथापि न कोऽपि तस्य नाम्नः प्रयोगं कुरुते ।

फलकम्:भारतस्य प्रधानमन्त्रिक्रमः फलकम्:भारतस्य प्रधानमन्त्रिणः

टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः

सन्दर्भलेखः

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=मनमोहन_सिंह&oldid=1710" इत्यस्माद् प्रतिप्राप्तम्