मधुगिरेः एकशिलाशैलः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
मधुगिरिः

मधुगिरेः एकशिलाशैलः कर्णाटकस्य तुमकूरुमण्डले मधुगिरौ विद्यमानः प्रसिद्धः शैलः ।

कर्णाटके रामनगरस्य ग्रानैट् शैलपङ्क्तिः प्रसरिता अस्ति । बहुत्र शिलाः खण्डिताः भूत्वा राशीकृतं शिखरम् इव दृश्यते । तत्र तत्र अर्धगोलाकारेण इव उद्गतानि शिखराणि अपि सन्ति । तेषु मधुगिरेः शैलः अन्यतमः अस्ति । तुमकूरुमण्डले अस्ति । एषः कश्चन एकशिलाशैलः । मधुगिरेः शैले एका एव अखण्डशिला शिखरम् इव स्थिता अस्ति । एशियाखण्डे प्रसिद्धः एकशिलाशैलः एषः । एतस्य वैशाल्यं १५,००० च.कि.मी. अस्ति ।

भूविज्ञानदृष्ट्या मधुगिरिशैलः स्थूलकणस्य धूम्रवर्णस्य ग्रानैट् शिलया निर्मितः अस्ति । एतस्यां शिलायां फेल्ड्स्पार् खनिजाः बृहत्शिलावत् भूत्वा शिलामातृकायां निगूढाः सन्ति । शिलायाः एतं विन्यासं ‘पार्फिरि रचना’ इति वदन्ति । एतां शिलां ‘ग्रनैट् पार्फिरि’ इति वदन्ति ।

ग्रानैट् संयोजनेन उष्णशिलारसः भूमेः शुक्तिं गत्वा सावधानेन यदा शीतलं भवति तदा अर्धगोलाकारकः इव शैलः रूपितः अभवत् इति आरम्भे चिन्तितमासीत् । किन्तु या शिला पेनिन्सुलार् नैस्, ग्रानैट् इव परिवर्तनं प्राप्नोति तस्यां प्रक्रियायां द्रवस्य कार्यान्तरेण एवं भवति इति इदानीं प्रतिपादितमस्ति ।

सामान्यतः सर्वत्र यथा दृश्यते तथा शिलायाः अवघर्षणेन मधुगिरेः शैलस्य शिलाः शिथिलाः न सन्ति । अधिकाः कोणाः न सन्ति इति कारणेन सस्यानां मूलम् अधः गन्तुं न शक्नोति । सामान्यतः २५० कोटिवर्षेभ्यः मधुगिरेः शैलस्य शिला निरन्तरं घर्मे, शैत्ये, वृष्ट्यां स्थिता चेदपि अखण्डा भूत्वा अवशिष्टा अस्ति । एतदेव मधुगिरेः एकशिलायाः शैलस्य वैशिष्ट्यम् ।

"https://sa.bharatpedia.org/index.php?title=मधुगिरेः_एकशिलाशैलः&oldid=3033" इत्यस्माद् प्रतिप्राप्तम्