मथुरा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian jurisdiction

मथुरामण्डलम्

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति मथुरामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मथुरानगरम्। मथुरा भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । भगवतः कृष्णस्य जन्म अत्र अभवत् ।मथुरा देहलीतः १३४ कि.मी. । आग्रातः ५७ कि.मी. दूरे अस्ति । श्रीकृष्णस्य जन्मस्थानम् इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति। केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् यमुनानदीतीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति । मथुरातः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र चैतन्यमहाप्रभुः भक्तेः महिमानं प्रदर्शितवान् । मीरा-गोपीनाथ- मदनमोहन-राधारमण-बिर्लामन्दिराणि अपूर्वाणि सन्ति ।

मथुरास्नानघट्टस्य वर्णचित्रम् (१८८३)

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=मथुरा&oldid=3872" इत्यस्माद् प्रतिप्राप्तम्