मञ्जुल भार्गव

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

मञ्जुल भार्गवः(जननम् आगस्ट् ८, १९७४) [१]) कश्चन भारतीयः केनडीय-अमेरिकीयः गणितज्ञः । अयम् अमेरिकीये प्रिन्स्टन्-विश्वविद्यालये गणितप्राध्यापकः अस्ति । अङ्कप्रमेयविषये तेन कृतं योगदानम् अत्यन्तं प्रसिद्धं महत्त्वपूर्णञ्च विद्यते ।

भार्गवः २०१४ तमस्य वर्षस्य फील्ड्स्-पदकप्रशस्त्या सम्मानितः अस्ति । अङ्कानां रेखागणिते तेन विनूतनाः परिणामकारिण्यः पद्धतयः आविष्कृताः सन्ति । अण्डाकारिकवक्रतानां स्थाननिर्देशनं, लघुवक्रतानां गणनं च भार्गवः एतासां पद्धतीनाम् उपयोगेन साधितवान् यत् तन्निमित्तम् इयं प्रशस्तिः दीयमाना अस्ति इति अघोषयत् अन्ताराष्ट्रियः गणितकूटः ।[२] तदीया एर्डो-सङ्ख्या २ विद्यते । [३]

शिक्षणं वृत्तिजीवञ्च

भार्गवः केनडादेशस्य ओण्टरियोराज्यस्य हेमिल्टन्-नगरे जातः । तस्य बाल्यदिनानि तु न्यूयार्क्-राज्यस्य लाङ्ग्-ऐलेण्ड्-प्रदेशे यापितानि ।[४] सः स्वीये चतुर्दशे एव वयसि प्रौडशालीयगणित-सङ्गणकशिक्षणं समापयत् । [५] तेन प्लैनेड्ज्-प्रौढशालायां शिक्षणं प्राप्तम् । १९९६ तमे वर्षे तेन हार्वर्ड्-विश्वविद्यालयतः बि ए पदवी प्राप्ता । पदवीपूर्वसंशोधनकार्याय तेन १९९६ तमे वर्षे मार्गन्-प्रशस्तिः प्राप्ता । आण्ड्रिव् वैल्स् नामकस्य मार्गदर्शकस्य आधीन्ये तेन प्रिन्स्टन्-विश्वविद्यालये संशोधनं कृतम् । सः २००१-०२ तमयोः वर्षयोः सः इन्स्टिट्यूट् आफ् अड्वान्स्ड् स्टडीस् इत्यत्रः अतिथिप्राध्यापकरूपेण कार्यम् अकरोत् ।[६] पदवीशिक्षणस्य समाप्तेः वर्षद्वयाभ्यन्तरे एव प्रिन्स्टन्-विश्वविद्यालये अयं पूर्णावधिप्राध्यापकरूपेण नियुक्तः जातः यत् तदस्ति विशेषतया उल्लेखार्हः । [७]

भार्गवः उत्कृष्टः तबलावादकः अस्ति यः प्रसिद्धस्य तबलावादकस्य झाकिर् हुसेनस्य शिष्येषु अन्यतमः ।[८] अयं स्वस्य मातामहस्य पुरुषोत्तम लाल भार्गवस्य समीपे संस्कृतमपि अधीतवान् । पितामहः प्रसिद्धः संस्कृतज्ञः प्राचीनभारतेतिहासज्ञश्च ।[९]

योगदानानि

तदीयः विद्यावारिधेः संशोधनद्वारा गासस्य काम्पोसिशन्-नियमानाम् अन्वयः विभिन्नेषु सन्दर्भेषु कृतः । तत्रत्य प्रमुखः फलितांशः अङ्कक्षेत्रे उपयुक्तमस्ति । बीजगणितीये अङ्कक्षेत्रे , अण्डाकारवक्रतानाम् अङ्कगणितीयप्रमेयविषये च तस्य विशेषप्रयोजनं दर्शितमस्ति । [१०] गणितक्षेत्रे तदीयानि कानिचन विशिष्टानि योगदानानि -

  • १४ नवीनाः गास्-शैलीकाः काम्पोसिशन्-नियमाः ।
  • १५ प्रमेयस्य प्रमाणानि
  • २९० प्रमेयस्य प्रमाणानि (जोनथन् हङ्के - इत्यनेन सह)

चितानि प्रकाशनानि

टिप्पाणी

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=मञ्जुल_भार्गव&oldid=733" इत्यस्माद् प्रतिप्राप्तम्