मङ्गलयानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox spaceflight मङ्गलयानम् (औपचारिकनाम- मङ्गल कक्षीय-मिशन्, फलकम्:Lang-en; मार्स ऑर्बिटर् मिशन्) इति भारतस्य मङ्गलग्रहं प्रति प्रथमम् अभियानम् अस्ति । वस्तुत: अभियानमिदं भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO) इति संस्थायाः एका महत्वाकाङ्क्षी अन्तरिक्षपरियोजना । अस्याः परियोजनानुसारं २०१३ तमवर्षस्य ५ नवेम्बर् दिनाङ्के (अपराह्नः २:३८ समये) उपग्रहस्य उत्प्रेषणम् सफलतापूर्वकम् अभवत्[१][२][३]आन्ध्रप्रदेशस्य श्रीहरिकोटास्थितं सतीश् धवन् अन्तरिक्ष केन्द्रतः ध्रुवीय उपग्रह प्रक्षेपण यानेन (पि एस् एल् वि-सि२५) सफलतापूर्वकमिदं मङ्गलयानं उत्प्रेषितम् आसीत् [४]। एतस्य यानस्य उत्प्रेषणानन्तरं भारतदेशः कतिपयदेशेषु एकः अभूत् ये मङ्गलं प्रति उपग्रहान् प्रेषितवन्तः । परन्तु इदमपि सत्यं यत्- तेषु अभियानेषु प्रायः अर्धं असफलानि अभवन्[५]

वस्तुतः इयं एका प्रौद्योगिकी परियोजना । अस्याः परियोजनायाः लक्ष्यमस्ति आन्तर्ग्रहीय-महाकाश-योजनार्थम् आवश्यकप्रारूपस्य, नियोजनस्य, प्रबन्धनस्य तथा क्रियान्वयस्य विकासकरणम्[६] । इदमभियानं यदि सफलं भविष्यति तर्हि भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO) चतुर्थमहाकाशसंस्थारूपेण मङ्गलग्रहे अवरतरिष्यति [७]

टिप्पणी

फलकम्:Reflist

बहिःसंयोगः

फलकम्:Commonscat

"https://sa.bharatpedia.org/index.php?title=मङ्गलयानम्&oldid=4701" इत्यस्माद् प्रतिप्राप्तम्