मङ्गलचण्डिका (उजानि)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

भारतदेशस्य पश्चिमबङ्गाल् राज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् । पश्चिमबङ्गाल् राज्ये बर्दवान्मण्डले अस्ति उजानिक्षेत्रम् ।

सम्पर्कः

गुस्काररेल् स्थानकतः १६की.मी. दूरे अस्ति उजानि । बस् यानस्य सौकर्यम् अपि अस्ति ।

वैशिष्ट्यम्

दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः दक्षिणमणिबन्धः अस्मिन् स्थाने पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी मङ्गलचण्डिका नाम्ना पूज्यते । अत्रत्यः शिवः कपिलवर्णवस्त्रधारी इत्यतः "कपिलाम्बरः" इति पूज्यते । देव्याः दर्शनेन मङ्गलं भवति इति विश्वासः अस्ति ।

"https://sa.bharatpedia.org/index.php?title=मङ्गलचण्डिका_(उजानि)&oldid=1490" इत्यस्माद् प्रतिप्राप्तम्