भोजपुरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भोपालनगरतः २८ कि.मी दूरे रायसेनमण्डले भोजपुरनामकं स्थानमस्ति । अत्रत्यः शिवदेवालयः भोजराजेन निर्मितः । द्वादशत्रयोदशशतककालीनः अपूर्णः देवालयः एषः । एतत् ‘उत्तरभारतस्य सोमनाथः इति कथयन्ति । चतुरस्राकारे देवालये चत्वारः स्तम्भाः सन्ति । तेषामुपरि अर्धगोलाच्छादकः (Tomb) अस्ति । एकैकः स्तम्भः ४० पादमितोन्नतः । शिवलिङ्गस्य परिधिः १७.७ पादपरिमित २३.५ पादोन्नतायां चतुरस्रवेदिकायां शिवलिङ्गः स्थापितः अस्ति । ७.५ पादमितोन्नतः शिवलिङ्गः एषः । गोहरगञ्जतः ८ कि.मी दूरे एतत्स्थानमस्ति ।

"https://sa.bharatpedia.org/index.php?title=भोजपुरम्&oldid=511" इत्यस्माद् प्रतिप्राप्तम्