भोक्तारं यज्ञतपसां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवविंशतितमः (२९) श्लोकः ।

पदच्छेदः

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥ २९ ॥

अन्वयः

यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति ।

शब्दार्थः

यज्ञतपसाम् = यज्ञानां तपसां च
भोक्तारम् = पालकम्
सर्वलोकमहेश्वरम् = सकलभुवननाथम्
सर्वभूतानाम् = सकलप्राणिनाम्
सुहृदम् = मित्रम्
माम् = माम्
ज्ञात्वा = विदित्वा
शान्तिम् = मोक्षम्
ऋच्छति = विन्दति ।

अर्थः

सोऽयं मुनिः भगवन्तं मां यज्ञतपसां पालकम्, सर्वलोकानां महेश्वरम्, सर्वभूतानां मित्रं च ज्ञात्वा मोक्षं प्राप्नोति।

शाङ्करदर्शनम्

एवं समाहितचित्तेन किं विज्ञेयमित्युच्यते-भोक्तारं यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तमाश्वरं सर्वलोकमहेश्वरं,सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्यपकारनिरपेक्षतयोपकारिणं सर्वभूतानां

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=भोक्तारं_यज्ञतपसां...&oldid=8714" इत्यस्माद् प्रतिप्राप्तम्