भूपेन्द्र पटेल

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox officeholder भूपेन्द्रभाई रजनीकान्त पटेल भारतीयः राजनेता, गुजरातराज्यस्य च सप्तदशः मुख्यमन्त्री। सः भारतीयजनतापक्षस्य नेता घाटलोडियामतविस्तारस्य प्रतिनिधित्वं गुजरातविधानसभायां करोति। पक्षद्वारा सः १२ सप्टेम्बर २०२१ दिनाङ्के गुजरातराज्यस्य सप्तममुख्यमन्त्रिरूपेण नियुक्तः जातः।

प्रारम्भिकं जीवनम्

श्रीभूपेन्द्रस्य जन्म १५ जुलाई १९६२ दिनाङ्के गुजरातराज्यस्य कर्णावती-महानगरे कडवा पटेल इति पाटीदार-परिवारे जातः आसीत्। [१] सः एप्रिल १९८२ मध्ये कर्णावत्याः सर्वकारीय-पोलिटेकनिक-संस्थायाः सिविल एन्जिनियरिंग इत्यस्मयां पदविकां प्राप्तवान्।[२][३] सः किशोरावस्थातः राष्ट्रियस्वयंसेवकसङ्घेन सह युक्तः अस्ति।

सः सरदार-धाम-विश्व-पाटीदार-केन्द्रस्य न्यासी, विश्व-उमिया-फाउन्डेशन-संस्थायाः स्थायिसमितेः अध्यक्षः अपि वर्तते।[४] तेओ व्यवसाये बिल्डर छे।[१] गुजरातविधानसभायाः अधिकृतजालस्य अनुसारं सः क्रिकेट-क्रीडायां, बेडमिन्टन-क्रीडायां च रुचिं धरते।[१][५] सः दादा भगवान-महोदयेन स्थापितस्य अक्रम-विज्ञान-आन्दोलनस्य अनुयायी अस्ति।[६]

राजकीयजीवनम्

म्युनिसिपल काउन्सिलर

सः १९९५-९६, १९९९-२००० मध्ये २००४-०६ मध्ये च मेमनगर-नगरपालिकायाः सभ्यः आसीत्। १९९९-२० मध्ये मेमनगर-नगरपालिकायाः प्रमुखः आसीत्।[१][४] सः २००८ तः २०१० पर्यन्तं अमदावाद म्युनिसिपल कोर्पोरेशन (एएमसी)-निकायस्य शालामण्डलस्य उपाध्यक्षः आसीत्। २०१० तः २०१५ यावत् सः थलतेज-विस्तारस्य परिषद्यः (काउन्सिलर) पदे आसीनः आसीत्।[१][४] सः २०१५ तः २०१७ पर्यन्तम् अमदावाद शहेरी विकास सत्ता मंडळ (औडा) इत्यस्याः संस्थायाः अध्यक्षः आसीत्।[७][१] सः अमदावाद म्युनिसिपल कोर्पोरेशन-निकायस्य स्थायिसमितेः अध्यक्षः आसीत्।[२]

गुजरातविधानसभायाः सभ्यः

श्रीभूपेन्द्रः २०१७ वर्षस्य गुजरातविधानसभायाः निर्वाचने भारतीयराष्ट्रियकोंग्रेस-पक्षस्य शशीकांत पटेल-महोदयस्य विरुद्धं विजयं प्राप्य घाटलोडिया-मतविस्तारस्य प्रतिनिधित्वे गुजरातविधानसभायाः सभ्यः अभवत्।[८][९] सः १,१७,००० मतैः विक्रमाग्रतया सह विजयं प्राप्तवान् आसीत्।[१०] स्वस्य मतदानक्षेत्रे सः "दादा" इति लालितकनाम्ना प्रसिद्धः वर्तते।

गुजरातस्य मुख्यमन्त्री

११ सप्टेम्बर २०२१ दिनाङ्के विजय रूपाणी-महोदयः गुजरातस्य मुख्यमन्त्रिपदात् त्यागपत्रम् अयच्छत्।[११] केन्द्रिय-निरीक्षकाः नरेन्द्र सिंह तोमर, प्रहलाद जोशी इत्येतयोः अध्यक्षतायां गान्धीनगरे पक्षस्य विधानसभागोष्ठ्यां १२ सप्टेम्बर, २०२१ दिनाङ्के पटेलः सर्वानुमते भाजपस्य विधानसभानेता, मुख्यमन्त्री च चितः आसीत्।[४]

पटेलस्य व्यक्तिगतजीवनम्

सम्पत्तिः

2017 वर्षस्य विधानसभा-निर्वाचनात् पूर्वं निर्वाचनपञ्चस्य सम्मुखं प्रदत्त-विज्ञप्तिपत्रस्य अनुसारं श्रीभूपेन्द्रस्य पार्श्वे 5.20 कोटिरूप्यकाणां सम्पतिः वर्तते। औडा (AUDA)-संस्थायाः अध्यक्षपदविभूषितः श्रीभूपेन्द्रः आई-20 कार-यानस्य, एक्टिवा-द्विचक्रि-यन्त्रवाहनस्य च स्वामी वर्तते।

व्यवसायः

मुख्यप्रधानः कन्सल्टींग एन्जीनीयरींग, विहान एसोशिएटस (Vihan Associates) इत्येतयोः नाम्ना व्यवसायं धरते। ततोऽधिकं तस्य पत्न्याः नाम्नि अंबा टाउनशीप, अमदावाद मध्ये कृषि-अयोग्या भूमिः अपि वर्तते। तस्याः भूमेः वर्तमान-विपण-मूल्यं 30 लक्षरूप्यकाणि वर्तते।

योगक्षेमे (वीमा), पोस्ट-सेवायां च निवेशः

नेशनल सेविंग्स स्कीम पोस्टल सोविंग्स, योगक्षेमसंस्थासु च आहत्य 1,23,00,000 रूप्यकाणां निवेशः आसीत्। एवञ्च तस्य पत्न्याः नाम्नि 16,00,000 रूप्यकाणां निवेशः वर्तते।

आभूषाणादिकसम्पत्तिः

घाटलोडिया-धारासभ्यपदविभूषितः मुख्यप्रधानः भूपेन्द्रः 16,75000 रूप्यकाणां सुवर्णाभूषणानि धरते।

ऋणम्

श्रीभूपेन्द्रस्य आहत्य देयकं 54,60,707 रूप्यकाणाम् अस्ति। एवञ्च सः व्यक्तिगत-ऋषणत्वेन 14,20,000(HUF) अपि धरते।

सन्दर्भः

फलकम्:Reflist

फलकम्:गुजरातराज्यस्य मुख्यमन्त्रिणः

"https://sa.bharatpedia.org/index.php?title=भूपेन्द्र_पटेल&oldid=6592" इत्यस्माद् प्रतिप्राप्तम्