भीष्मद्रोणप्रमुखतः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २५ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।

पदच्छेदः

भीष्म द्रोणप्रमुखतः, सर्वेषाम्, च, महीक्षिताम् । उवाच, पार्थ, पश्य, एतान्, समवेतान्, कुरून्, इति ॥

अन्वयः

भारत ! एवं गुडाकेशेन उक्तः हृषीकेशः सेनयोः उभयोः मध्ये भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षितां (प्रमुखतः) रथोत्तमं स्थापयित्वा पार्थ ! एतान् समवेतान् कुरून् पश्य' इति उवाच ।

शब्दार्थः

भीष्मद्रोणप्रमुखतः = भीष्म द्रोणादीनां सम्मुखे
सर्वेषाम् च = अखिलानाम्
महीक्षिताम् = राज्ञां च
उवाच = अब्रवीत्
पार्थ = अर्जुन !
पश्य: = अवलोकय
एतान् = इमान्
समवेतान् = संमिलितान्
कुरून् = कुरुवंशीयान्
इति = एवम्

अर्थः

अर्जुनः भगवन्तं श्रीकृष्णं यदा एवम् उक्तवान् तदा श्रीकृष्णः तयोः सेनयोः मध्ये रथं स्थापितवान् । भीष्मस्य द्रोणस्य अन्येषां राज्ञां च सम्मुखे रथं संस्थाप्य सः अर्जुन ! युद्धं कर्तुम् उपस्थितान् एतान् कौरवपक्षीयान् पश्य'’ इति अवदत् ।

रामानुजभाष्यम्

स च तेन चोदितस्तत्क्षणादेव भीष्मद्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथा चोदितमकरोत। ईदृशी भवदीयानां विजयस्थितिरिति चावोचत॥१.२५॥

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भीष्मद्रोणप्रमुखतः...&oldid=3788" इत्यस्माद् प्रतिप्राप्तम्