भिण्डमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

भिण्डमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भिण्ड इति नगरम् ।

भौगोलिकम्

भिण्डमण्डलस्य विस्तारः ४,४५९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे मुरैनामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे ग्वालियरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं भिण्डमण्डलस्य जनसङ्ख्या १७,०३,००५ अस्ति । अत्र ९,२६,८४३ पुरुषाः, ७,७६,१६२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८३७ अस्ति । अत्र साक्षरता ७५.२६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- भिण्ड, अटेर, गोडमी, मेहगांव, गोहड, रोन, मिहोना, लहर ।

वीक्षणीयस्थलानि

माता-रेणुका-मन्दिरम्

माता-रेणुका-मन्दिरं मऊ-नगरे स्थितमस्ति । इदं स्थलं भगवतः परशुरामस्य जन्मस्थलमस्ति । परशुरामस्य पिता जमदग्निः आसीत् । तस्य माता रेणुका आसीत् । तस्मिन् स्थले एव परशुरामेण पितुः आदेशपालनाय स्वस्य मातुः मस्तकछेदनं कृतम् आसीत् । तदा जमदग्निः प्रसन्नोऽभवत्, परशुरामाय इच्छितवरदानं अयच्छत् च । तदा परशुरामः स्वस्य मातुः पुनर्जीवनाय वरदानम् ऐच्छत् । तस्य माता पुनर्जीविता अभवत् । अतः अत्र रेणुकादेव्याः मन्दिरं निर्मापितम् अस्ति । अटेर-दुर्गः, नारददेव-मन्दिरं, वनखण्डेश्वर-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://www.bhind.mp.gov.in/
http://www.census2011.co.in/census/district/287-bhind.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=भिण्डमण्डलम्&oldid=659" इत्यस्माद् प्रतिप्राप्तम्