भिक्षुः आचार्यः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु


भिक्षुः आचार्यः (फलकम्:IPA audio linkफलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) तेरापन्थ-सम्प्रदायस्य संस्थापकः प्रवर्तकश्च आसीत् [१]। सः 'श्रमण'-परम्परायाः महान् संवाहकः आसीत् । तेन एव तेरापन्थ-सम्प्रदायाय सम्पूर्णे भारते प्रचारः कृतः । तदनन्तरं तस्मिन् सम्प्रदाये बहवः आचार्याः अभवन् । सर्वे तेरापन्थ-सम्प्रदायस्य अनुयायिनः भिक्षु-आचार्यस्य पूजां कुर्वन्ति । तथा च सम्पूर्णे भारते अयं भिखणजी इति नाम्ना अपि प्रसिद्धः जातः[२] । अयं जैनसम्प्रदायस्य महान् आचार्यः आसीत् । जन्मना एव अयं साधुविचारकः आसीत् । स्थानकवासी-सम्प्रदायस्य आचार्यरघुनाथस्य निर्देशानुसारं तेन स्थानकवासी-सम्प्रदायस्य साधुत्वम् अङ्गीकृतम् ।

जन्म, परिवारश्च

आचार्यभिक्षोः जन्म ई. स. १७२६ तमे वर्षे जुलाई-मासस्य प्रथमे दिनाङ्के, १७८३ तमे विक्रमसंवत्सरे आषाढ-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ अभवत्[३]राजस्थान-राज्यस्य मारवाड-क्षेत्रस्य कण्टालिया-नामके ग्रामे तस्य जन्म अभवत् । तस्य पितुः नाम शाह बल्लुजी इति , तथा च मातुः नाम दीपाबाई इति आसीत् । अयम् ओसवाल-ज्ञातीयः, सकलेचा-वंशीयः च आसीत् । [४]भिक्षोः पूर्वाश्रमस्य नाम (जन्मनाम) भीखण इति आसीत् ।

सामान्यजीवनम्

प्रारम्भादेव तस्य व्यक्तित्वं साधारणम् एव आसीत् । तत्कालीनायाः परम्परयाः अनुसारं लघुवयसि एव तस्य विवाहः जातः[५] । वैवाहिके जीवने सति अपि सः वैराग्यमयं जीवनं जीवितुम् इच्छति स्म । धर्मं प्रति सः सदैव तत्परः आसीत् । तस्य पत्निः अपि धार्मिका आसीत् । तौ द्वौ दीक्षां प्राप्तुम् इच्छतः स्म । किन्तु किञ्चित् समयान्तरे तस्य पत्न्याः देहावसानम् अभवत् । तदनन्तरं सः स्वयमेव दीक्षां प्राप्तुं जागतिकः अभवत् । परन्तु दीक्षायै तस्य मातुः आज्ञा नासीत् । तत्कालीनस्य स्थानकवासी-सम्प्रदायस्य आचार्यस्य रघुनाथस्य कथनानुसारं भिक्षुणा मातुः आज्ञा प्राप्ता । माता रघुनाथाचार्यम् उक्तवती यत् – “अहं कथं दीक्षायै आज्ञां दातुं शक्नोमि ? यदा भिक्षुः मम गर्भे आसीत्, तदैव अहं सिंहस्य स्वप्नं दृष्टवती आसम्[६] । तस्य स्वप्नस्य अनुसारम् अयं कस्यचित् देशस्य राजा भविष्यति । सिंहः इव पराक्रमी अपि भविष्यति” इति । तदा आचार्येण उक्तं यत् – “ राजा एकस्मिन् देशे एव पूज्यते । किन्तु तव पुत्रस्य साधुत्वे सति सम्पूर्णे जगति तस्य पूजा भविष्यति” इति । अतः अन्ते भिक्षोः माता रघुनाथाचार्यस्य कथनानुसारं दीक्षायै अनुमतिम् अददात्[७]

साधुजीवनम्

ई. स. १७५१ तमे वर्षे, १८०८ तमे विक्रमसंवत्सरे मार्गशीर्ष-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ भिक्षुः आचार्यरघुनाथात् दीक्षां प्रापत्[८] । आचार्यभिक्षोः दृष्टिः, मेधा च सूक्ष्मतमा आसीत् । तत्वस्य गहनतायाः प्राप्तिः तस्य स्वभावः एव आसीत् । किञ्चित् वर्षान्तरे सः जैनशास्त्रज्ञः अभवत् ।

ई. स. १७५८ तमे वर्षे १८१५ तमे विक्रमसंवत्सरे तस्य मनसि साधुवर्गस्य आचारविचारयोः प्रति क्रान्तेः भावना जागतिका । तेन स्वस्य क्रान्तिपूर्णाः विचाराः आचार्यरघुनाथस्य समक्षं स्थापिताः[९] । वर्षद्वयं यावत् विचारविमर्शः अभवत् । विचारभेदेन निर्णयस्याभावे सति आचार्यभिक्षुः कैश्चित् साधुभिः सह ई. स. १७६० तमे वर्षे १८१७ तमे विक्रमसंवत्सरे चैत्र-मासस्य शुक्लपक्षस्य नवम्यां तिथौ मारवाड-क्षेत्रस्य बगडी-ग्रामे पृथगभूत्[१०] । आचार्यभिक्षोः धर्मक्रान्तेः विरोधः अभवत् । कारणं तस्मिन् काले आचार्यरघुनाथस्य प्रभावः प्रबलः आसीत् । अतः जनैः भिक्षोः सहयोगः न कृतः । ग्राम्यजनैः तेभ्यः साधुभ्यः निवासार्थं स्थानम् अपि न प्रदत्तम् । अतः आचार्यभिक्षुः, अन्ये साधवश्च अन्यत्र विहाराय अगच्छन् । किन्तु चक्रवातेन तेषां मार्गः अवरूद्धः । तदा तैः श्मशाने एव निवासः कृतः आसीत् । यत्र ते साधवः निवासं कृतवन्तः, तत्र जैतसिंह नामाख्यस्य स्मारकम् आसीत् । [११]साम्प्रतम् अपि तत् स्मारकं विद्यमानम् अस्ति ।

सङ्घस्य बहिष्कारेण कोऽपि आचार्यभिक्षोः साहाय्यं न करोति स्म । सर्वे जनाः तस्य विरोधम् एव कुर्वन्ति स्म । किन्तु सः लौहपुरुषः आसीत् । अतः सः तटस्थतया स्वस्य कार्यं करोति स्म । सः सत्यस्य महानुपासकः अपि आसीत् । सः सत्याय स्वस्य प्राणस्य अपि त्यागं कर्तुं शक्नोति स्म । [१२]ई. स. १७६० तमे वर्षे (वि. सं. १८१७) आषाढ-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ मेवाड-क्षेत्रस्य केलवा-ग्रामे द्वादशसाधुभिः सह आचार्यभिक्षुणा शास्त्राधारिता दीक्षा प्राप्ता । तस्मिन् दिने एव तेरापन्थ सम्प्रदायस्य स्थापना अभवत् । तस्मिन् दिने एव आचार्यभिक्षोः नेतृत्वे एकस्य सुसङ्घटितस्य सङ्घस्य निर्माणं जातम् ।[१३] सः सङ्घः तेरापन्थ इति नाम्ना प्रख्यातः अभवत् ।

सङ्घटनस्य नेतृत्वम्

ई. स. १७६० (वि. सं. १८१७) तमवर्षतः ई. सं १७७४ (वि. सं. १८३१) तमं वर्षं यावत् आचार्यभिक्षोः महासङ्घस्य पञ्चदशवर्षीयं जीवनं सङ्घर्षमयम् आसीत् । [१४]पञ्चवर्षपर्यन्तम् आहारमपि न प्राप्नोति स्म । कदाचित् आहारः प्राप्नोति स्म कदाचिन्न प्राप्नोति स्म । तस्यां सङ्घर्षमयस्थितौ आचार्यभिक्षुः कठोरतपश्चर्यां, साधनां, शास्त्राणां च गहनाध्ययनं चकार । तेन सङ्घस्य भविष्यत्कालस्य अपि चिन्तनं कृतम् आसीत् ।

उत्तराधिकारी भारमलजी

भारमलजी इत्ययम् आचार्यभिक्षोः प्रमुखः शिष्यः आसीत् । [१५]अतः ई. स. १७७५ (वि. सं. १८३२) तमे वर्षे आचार्यभिक्षुणा स्वस्य प्रमुखशिष्यः भारमलजी इत्ययम् उत्तराधिकारीत्वेन उद्घोषितः । तस्मिन् समये एव सः सङ्घस्य मर्यादानां निर्माणम् अपि अकरोत् । तस्मिन् वर्षे एव तेन मार्गशीर्षमासस्य कृष्णपक्षस्य सप्तम्यां तिथौ प्रथमं मर्यादापत्रं लिखितम् आसीत् । तदनन्तरं नूतनमर्यादानां निर्माणं कृतम् । तेन कारणेन सङ्घः सुदृढः जातः ।

आचार्यभिक्षोः अन्तिमं मर्यादापत्रम्

ई. स. १८०२ तमस्य वर्षस्य (वि. सं. १८५९) माघ-मासस्य शुक्लपक्षस्य सप्तम्यां तिथौ आचार्यः भिक्षुः अन्तिमं मर्यादापत्रं लिखितवान् आसीत् [१६]। सङ्घे एकः एव आचार्यः स्यात् इति नियमेन सङ्घस्य शक्तिः वर्धिता जाता । तेन सङ्घटनं सुदृढं जातम् । सम्प्रदाये सर्वेषां साधूनां पृथक्-पृथक् शिष्याः भवन्ति स्म । किन्तु अन्तिमे मर्यादापत्रे सर्वेषां शिष्याणाम् एकः एव आचार्यः स्यात् इति लिखितम् आसीत् । अतः स्वशिष्यपरम्परायाः विच्छेदः जातः । भविष्यत्कालस्य आचार्यस्य निर्वाचनस्य अधिकारः अपि वर्तमानाचार्याय एव प्रदत्तम् आसीत् ।

साम्प्रते काले तेरापन्थ-सम्प्रदायसङ्घः अनुशासितः, मर्यादितः, व्यवस्थितः च धर्मसङ्घः अस्ति । अस्य श्रेष्ठकार्यस्य सम्पूर्णः श्रेयः आचार्यभिक्षवे एव अस्ति[१७]

आचार्यभिक्षोः विचारवैशिष्ट्यम्

आचार्यभिक्षोः मौलिकानि चिन्तनानि समाजाय शुभचिन्तकानि भवन्ति स्म । सः हिंसा, दया, दान इत्यादिषु विषयेषु निरन्तरं चिन्तनं करोति स्म । तेषां विषयाणां सः व्याख्यां कृतवान् । तस्य व्याख्याः वैज्ञानिकाः भवन्ति स्म[१८]

आचार्यभिक्षुः अहिंसायाः उपासकः आसीत् । सः कदापि हिंसां नेच्छति स्म । पञ्चेन्द्रियजीवेभ्यः एकेन्द्रियप्राणिनां हननं कर्तव्यम् इति आचार्यभिक्षोः दृष्ट्या अनुचितम् आसीत् । आगमेषु अस्य विरोधः अपि कृतः अस्ति[१९]

अध्यात्मने, व्यवहाराय च तस्य विचारः अपि भिन्नः एव आसीत् । दयादानयोः विषये लौकिकः, लोकोत्तरश्च भेदः प्रस्तुत्य आचार्यभिक्षुणा जैनसमाजे प्रचलितानां मान्यतानां समक्षं नूतनं चिन्तनं प्रस्थापितम् । [२०] तस्मिन् समये समाजस्य मापदण्डः दयादानयोः आधारितः आसीत् । दयादानाभ्याम् एव सर्वोपलब्धिः पुण्योपलब्धिः वा भविष्यति इति मान्यता आसीत् । आचार्यभिक्षुणा लौकिकदयादानयोः व्यवस्थायाः सम्बन्धः कर्तव्यसहयोगाभ्यां सह कारितः । अनया प्रक्रिया मौलिकस्य सत्यस्य आच्छादनं निरस्तीकृतम् । साध्यसाधनयोः विषये अपि तस्य दृष्टिकोणः स्पष्टः एव आसीत् । सुखसाधनाभ्याम् एव सुखसाध्ययोः प्राप्तिः शक्या इति तस्य मतम् आसीत् । [२१]तेन उक्तं यत् – यानि वस्त्राणि रक्तेन सह संसर्गीभूतानि सन्ति तानि वस्त्राणि कदापि शुद्धिं न प्राप्नुवन्ति । तथैव यस्य मनुष्यस्य प्रवृत्तिः हिंसा प्रधाना वर्तते, तस्मै पवित्रलक्ष्यस्य प्राप्तिर्न भवति ।

कवित्वेन आचार्यभिक्षुः

आचार्यभिक्षुः एकः कविः, साहित्यकारश्चापि आसीत् । [२२]सः राजस्थानी-भाषायां ३८००० पद्यानां रचनाम अपि कृतवान् । तया रचनया जैनसाहित्यं समर्थम् (विपुलम्) अकरोत् । आचारस्य प्रतिपादनं, तत्वदर्शनस्य विश्लेषणं, धर्मसङ्घस्य मौलिकमर्यादानां निरूपणम् इत्यादयः तस्य साहित्यरचनायाः प्रमुखाः विषयाः आसन् । तस्य रचनासु प्राचीनवैराग्यस्य आख्यानम् इति निहितम् अस्ति ।

आचार्यभिक्षुः कविः नासीत् , न भवितुम् ऐच्छत् । यद्यपि तेन भाषाशास्त्रस्य, छन्दशास्त्रस्य, अलङ्कारशास्त्रस्य, रसशास्त्रस्य च प्रशिक्षणम् अपि न प्राप्तम् आसीत्,[२३] तथापि तेन बह्व्यः उत्तमाः रचनाः कृताः । तासु रचनासु सः रसानाम्, अनुप्रासानाम्, अलङ्काराणां च प्रयोगं कृतवान् । पाठकाः तस्य काव्यरसेन सर्वदा मुग्धाः भवन्ति ।

मृत्युः

आचार्यभिक्षोः जीवनं ज्योतिर्मयम् आसीत् । तस्य जीवनस्य प्रतिक्षणं पुरुषार्थाय, समाजकल्याणाय एव आसीत् । तस्य शासनकाले ४९ साधवः, ५६ साध्व्यश्च आसन् । जैनधर्मस्य आचार्येषु तस्य नाम विख्यातम् अभवत् । ई. स. १८०३ तमस्य वर्षस्य (वि. सं. १८६०) भाद्रपदमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ राजस्थान-राज्यस्य मारवाड-क्षेत्रस्य सिरियारी-ग्रामे सप्तसप्ततितमे (७७) वयसि आचार्यभिक्षुः समाधिं स्व्यकरोत् ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

सन्दर्भः

फलकम्:Reflist फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=भिक्षुः_आचार्यः&oldid=10495" इत्यस्माद् प्रतिप्राप्तम्