भारतीयवायुसेना

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox military unit भारतीया वायुसेना भारतस्य सशस्त्रसेनायाः कश्चन भागः । सर्वकारीयसुरक्षामन्त्रालयेन नियन्त्रिता इयं संस्था आकाशयुद्धम्, लोकरक्षणस्य महत्वपूर्णकार्यं सर्वदा करोति । अस्य आरम्भः सा.श. १९३२तमवर्षस्य अक्टोबर् मासस्य अष्टमे दिने अभवत् । सम्पूर्णगणतन्त्रात् पूर्वमेव अस्य नाम रायल् इण्डियन् एर्फोर्स् इति आसीत् । सा.श. १९४५तमवर्षस्य द्वितीयविश्वयुद्धे अस्याः सेनायाः महत्त्वपर्णं योगदानम् आसीत् । भारतस्य स्वातन्त्र्योत्तरं रायल् इति पदम् अपनीय इण्डियन् एर्फोर्स् (भारतीयवायुसेना) इति नाम रक्षितम् । स्वातन्त्र्योत्तरं पार्श्वदेशेन पाकिस्तानेन सह सम्भूतेषु चतृषु युद्धेषु, चीनादेशेनसह सञ्जाते एकस्मिन् युद्धे भारतीयवायुसेनायाः योगदानम् अनुपमम् अस्ति । एतावति काले इयं सेना अनेकेषु युद्धप्रकल्पेषु परिणामम् अदर्शयत् । भारतीयवायुसेना विजयः इति गोवामुक्तिसङ्ग्रमे, आपरेशन् मेघदूतम्, आपरेशन् कैक्टस्, आपरेशन् पुमलायी, इत्यादिषु युद्धप्रकल्पेषु आत्मसात् कृत्वा यशोवती अभवत् । कांश्चन विवादान् अतिरिच्य भारतीयवायुसेना संयुक्तराष्ट्रसङ्घस्य शान्तिमिश्न् सङ्घटनस्यापि सक्रियः सदस्यः । भारतस्य राष्ट्रपतिः वायुसेनायाः मुख्यसेनापतिः (कमाण्डर् इन् चीफ्) इति कार्यं करोति । वायुसेनाध्यक्षः एर् चीफ् मार्शल् (ए.सि.एम्) चत्वारिनक्षत्रधारी सेनपतिः वायुसेनायाः नेता भवति । भारतीयवायुसेनायाम् एकस्मिन्नेव काले अनेके एर् चीफ् मार्शल् सेवायां न भवन्ति । अस्य प्रधानकार्यालयः नवदेहल्याम् अस्ति । सा.श. २००६तमवर्षस्य गणनानुगुणम् आहत्य १७०००० सैनिकाः, १३५० लडाकूविमानानि, सन्ति । इयं सेना विश्वस्य चतुर्थी बृहद्वायुसेना इति स्थानम् आप्नोत् । [१]

उद्देशाः

गतकतिपयवर्षेभ्यः वायुसेनायाः विकासः । (१) सा.श.१९३३-१९४१ (२) सा. श.१९४२ -१९४५ (३) सा.श.१९४७-१९५० (४)सा. श.१९५०तः वर्तमानः[२]

भारतीयवायुसेनायाह् मिशन् सशस्त्रबलस्य सा.शा.१९४७तमस्य अधिनियमानुसारं परिभाषितम् अस्ति । भारतीयसंविधानस्य सेनायाः च सा.श.१९५०तमस्य अधिनियमानुसारं वायुयुद्धक्षेत्रे- सर्वस्थानैः सहितं भारतस्य संरक्षणम् । देशरक्षने सदा अन्नद्दा स्यात् । एवं सर्वापायेभ्यः भारतीयवैमानिकक्षेत्रस्य संरक्षणम् अपि अस्याः दायित्वम् । सशस्त्रबलानाम् अन्यविभागनामपि साहाय्याचरणं प्राथमिकोद्देशेषु अन्यतमः । भारतीयवायुसेन युद्धरङ्गे भारतीयसेनायः सैनिकानां वैमानिककौशलस्य रणनैतिक् एर्लिफ्ट् क्षमताप्रदानं च करोति । भारतीयवायुसेन एकीकृतान्तरिक्षप्रकोष्टैः सह अन्यशाखाः भारतीयसशस्त्रबलम्, भारतीयान्तरिक्षानुसन्धानसङ्घटनम्, (इसरो) इत्यदिभिः सह अन्तरिक्षाधारितसम्पत्तीनाम् उपयोगं प्रभावरूपेण कर्तुं सैनिकदृष्ट्या साहाय्यम् आचरति । भारतीयवायुसेना भारतीयसशस्त्रबलानाम् अन्यशाखाभिः सहयोगं यच्छन्ती एव अन्यविधकार्याणि करोति । आपत्सु जनान् सम्पदः च रक्षितुं रक्षणसामग्रीणां वितरणं कर्तुं च यतते । दुर्घटनेषु सञ्जातेषु अन्वेषणसरक्षणाभियने सहायतां ददाति । सा.श. २००४तमवर्षे भारतीयवायुसेना सुनामी महाजञ्झावातेन सा.श. १९९८तमवर्षे गुजराजराज्यस्य चण्डमारुतेन प्राकृर्तिकापदि जनाः दुरवस्थाङ्गताः । तस्मादपायात् रक्षितुं वायुसेना आपरेशन् रूपेण व्यापकसाहाय्यं समाचरत् । भारतीयवायुसेना अन्यदेशियेषु प्राकृर्तिकापायेषु साहाय्यं यच्छति यथा अपरेशन् इन्द्रचाप इति नाम्ना श्रीलङ्कायां साहाय्यम् आचरितम् ।

इतिहासः

भारतीयवायुसेना (Air Force) स्कीन् कमिटि (Skeen Committee) द्वारा सा.श. १९२६तमवर्षे कृतसूचनानुसारं सा.श. १९३३तमवर्षस्य एप्रिल् प्रथमदिने भारतीयवायुसेनायाः उद्घाटनम् अभवत् । केचन वापिटिविमानानि (Wapiti) क्रानवेल्विमानानि च (Cranwel) प्रशिक्षितवैमानिकान् वायुसैनिकान् (airmen) च मेलयित्वा लघुसेना रचिता । ७८वर्षेषु भारतीयवायुसेना विशेषं विस्तारं प्रतिष्ठां च अवाप्नोत् । अद्य भारते देशे वायुसेन न केवलं सशस्त्रसेनासमूहः प्रत्युत देशस्य अनिवार्यं पृथक् अङ्गम् अस्ति । अपि आधुनिकवायुयानैः सुसज्जितानां वैमानिकानां साम्राज्यम् अस्ति ।

द्वितीयं विश्वयुद्धम् (सा.श.१९३९-१९४५)

वेस्टलैंड वापिटी,भारतीयवायुसेनायाः आरम्भिकविमानम् ।

भारतीयवायुसेनायाः घटनम् आङ्ग्लकालीनभारतस्य रायल् एर्फोर्स् कश्चित् सहायकः विमानदलरूपेण कृतम् ।[३] भारतीयवायुसेनाधिनिगमः सा.श. १९३२तमवर्षस्य अक्टोबर्मासस्य अष्टमे दिने आरब्धः ।[४] यस्य अधीनतायां रायल् एर्फोर्स् विभागस्य समवस्त्रं पदकं प्रतीकं चिह्नं स्वीकृतम् ।[५] सा.श. १९३३तमवर्षस्य एप्रिल् मासस्य प्रथमदिने वायुसेनायाः प्रथमं स्कवॉड्रन, स्कवॉड्रन क्र.-१ इत्यस्य चत्वारि वेस्ट्लैण्ड् वापिटी विमानेन सह पञ्चवैमानिकैः सह सङ्घटनं कृतम् । भारतीयवैमानिकानां नेतृत्वं फ्लैट् लेफ्तिनेण्ट् सेसिल् ब्रौशर् अन्तर्गतं कृतम् । [६] सा.श. १९४१तमवर्षपर्यन्तं स्कवॉड्रन क्र. १ भारतीयवायुसेना स्वयमेव स्कवॉड्रन आसीत् यस्मिन् विमानद्वयम् आगतम् ।[६] आरम्भे वायुसेनायां भूसेवा रसदशाखा इति केवलं शाखाद्वयम् आसीत् । द्वितीयमहायुद्धस्य पश्चात् भारतीयवायुसेनायाः लाञ्छनात् रक्तगोलचिह्नम् अपनीतम् । जपानीयानां हिनोमारु(उदयसूर्यस्य) चिह्नेन सह सादृश्यं भवति इति कारणेन एवं कृतम् । [५] सा.श. १९४३तमवर्षे वायुसेना संवर्धिता सप्त स्कवाड्रनस् अग्रे सा.श.१९४५तमवर्षे नव स्कवाड्रनस् युक्ता अभवत् । [६] भारतीयवायुसेनया अग्रे आगतां जपानीयसेनां विरुद्ध्य योद्धुं बङ्गालस्य साहाय्यम् आचरितम् । तत्र भारतीयवायुसेनया प्रथमवारं वैमानिकाकत्रमणम् अराकन इति स्थाने जपानीयसैन्यशिबिरे अकरोत् । अपि च भारतीयवायुसेनया मायी हङ्ग् सन्, उत्तरी थायलेण्डस्य चैङ्ग् मायी राये इत्यदिषु स्थानेषु अपि आक्रमणम् अकरोत् । अस्याः योगदानार्थं सा.श. १९४५तमवर्षे राजा षष्ठ जार्ज् इत्येषः सेनायै रायल् इति उपधिं दत्तवान् ।[७]


बाह्यानुबन्धाः

टिप्पणी

फलकम्:Reflist फलकम्:भारतीयरक्षणविभागः

"https://sa.bharatpedia.org/index.php?title=भारतीयवायुसेना&oldid=5571" इत्यस्माद् प्रतिप्राप्तम्