भारतीयदार्शनिकसंशोधनपरिषद्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयदार्शनिकसंशोधनपरिषद् भारतीयदर्शनानां विषये अध्ययनं तथा तस्य संरक्षणार्थं स्थापिता संस्था एषा । एषा परिषद् १९७७ तमे वर्षे आरब्धा । एषा भारतसर्वकारस्य शिक्षणसचिवालयेन स्थापिता स्वयत्तसंस्था अस्ति । भारतीयदर्शनानां विषये अध्ययनं तथा तस्य संरक्षणं च अस्य दायित्वम् अस्ति । अत्र प्रतिपादितस्य ज्ञानस्य विषये अद्यतनप्रपञ्चे अन्वयनं कथम् इति अत्र विचिन्त्यते । ज्ञानस्य अन्यशाखानामपेक्षया एषा शाखा अवश्यं रक्षणीया । एतासां ज्ञानशाखानाम् अध्ययनेन पूवर्जानां सिद्धिं तथा मानवमूल्यानां विषयं च ज्ञात्वा तदनुगुणं जीवनयापनं करणीयम् इति आशा उत्पद्यते । भारतस्य इदमेव वैशिष्ट्यं यद् अन्यदेशेषु एतादृशम् अध्यात्मिकं ज्ञानं न विकसितम् । न केवलं विश्वविद्यालयैः अपि च “अनया संस्थया अपि पुस्तकानां लोकार्पणकार्यं साधनीयम् । भारतस्य ये प्रमुखाः दार्शनिकाः सन्ति तेषां पुस्तकानां प्रकाशनम् अपि भवेत् “ इति अस्याः परिषदः उद्देशः। तदानीन्तनप्रधानमन्त्रिणा इन्दिरागान्धिमहाभागया १९७७ तमे वर्षे भारतीयदार्शनिकसंशोधनपरिषद् उद्घाटिता अभवत् ।

प्रमुखाः उद्देशाः

  • पाश्चात्यदार्शनिकानां भारतीयदार्शनिकानां च परिचयः ।
  • तदा तदा कार्यशालानाम् आयोजनं , पुनर्मननं, चिन्तनं गोष्ठ्यादीनां प्रचालनम् ।
  • पठनसामग्रीसंरचना ।
  • युवविदुषां कृते वार्षिकप्रबन्धस्पर्धा आयोजनम् ।
  • दर्शनानां यत्र अध्ययनं भवति तादृशसंस्थाभिः सह सम्बन्धः।
  • अन्यदेशस्थप्रसिद्धदर्शनकारैः सह सम्बन्धः।
  • दर्शनविषयिकी प्रदर्शिनी ।
  • विश्वस्तरीयदर्शनग्रन्थानां पुस्तकालस्य स्थापनम् ।