भाग्यसूक्तम्
नेविगेशन पर जाएँ
खोज पर जाएँ
भाग्यसूक्तम् वैदिक सूक्तेषु भाग्य वर्धानायै निथ्यम ध्येयम् इति केचित्। अस्य छन्दसि देवता रूपेण अग्निः इन्द्रः मित्रः वरुणः अश्विनी भग पूषा ब्रह्मणस्पति सोमः रुद्रः इति यमपि देवम् अनेन सूक्तेन स्तोतुम् श्क्यते इति सूचितम्
भाग्यसूक्तस्य छन्दः
मैत्रावरुणै वसिष्ठः ऋषिः जगतितृष्टुभौ छन्दः अग्निरिन्द्रोमित्रावरुणाश्विभगपूषा ब्रह्मणस्पति सोमो रुद्रो देवता
सूक्तम्
- प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरर्श्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातस्सोममुत रुद्रँ हुवेम ॥१॥
- प्रातर्जितं भगमुग्रँ हुवेम वयं पुत्रमदितेर्यो विधर्ता । आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यंभगं भक्षीत्याह॥२॥
- भग प्रणेतर्भगसत्यराधो भगेमां धियमुदवददन्नः। भगप्रणो जनय गोभि-रश्वैर्भगप्रनृभि-र्नृवन्तस्स्याम ॥३॥
- उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम्। उतोदिता मघवन् सूर्यस्य वयं देवानाँ सुमतौ स्याम ॥४॥
- भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तस्स्याम। तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह॥५॥
- समध्वरायोषसोऽनमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाजिन आवहन्तु॥६॥
- अश्वावतीर्गोमतीर्नउषासो वीरवतीस्सदमुच्छन्तु भद्राः।घृतं दुहाना विश्वतः प्रपीनायूयं पात स्वस्तिभिस्सदा नः॥७॥
- यो माऽग्नेभागिनँ सन्तमथाभागं चिकीर्षति। अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥८॥
- ऊँ शान्तिः शान्तिः शान्तिः