भवाप्ययौ हि भूतानां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि च अव्ययम् ॥ २ ॥

अन्वयः

कमलपत्राक्ष ! भूतानां भवाप्ययौ हि विस्तरशः त्वत्तः मया श्रुतौ । अव्ययं माहात्म्यम् अपि च ।

शब्दार्थः

कमलपत्राक्ष = पद्मपत्रनेत्र !
भूतानाम् = प्राणिनाम्
भवाप्ययौ = उत्पत्तिप्रलयौ
विस्तरशः = वैपुल्येन
त्वत्तः = तव सकाशात्
मया श्रुतौ = मया आकर्णितौ
अव्ययम् = अक्षयम्
माहात्म्यम् अपि च = प्रभावोऽपि (श्रुतः) ।

अर्थः

हे पद्मपत्रनेत्र, श्रीकृष्ण ! प्राणिनाम् उत्पत्तिं प्रलयं च भवतः मुखात् विस्तरेण अहं श्रुतवान् । भवतः अक्षयं प्रभावमपि श्रुतवान् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भवाप्ययौ_हि_भूतानां...&oldid=4899" इत्यस्माद् प्रतिप्राप्तम्