भरतपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भरतपुरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति भरतपुरम् इत्येतन्नगरम् ।

पुरा एतन्नगरं कदम्बवृक्षाणां मृग्यस्थानमासीत् । पक्षिणां जीवनाध्ययनं कुर्वताम् इदम् अपूर्वस्थानमस्ति । इदानीं ३२८ विविधजातीयाः पक्षिणः अत्र दृश्यन्ते । ११७ प्रकारकाः पक्षिणः विदेशीयाः सन्ति । भरतपुरपक्षिधाम्नि ८० प्रकारकाः कदम्बवृक्षाः विद्यन्ते । अस्य धाम्नः विस्तारः १२ हेक्टेर्मितः । अस्य पक्षिधाम्नः केवलदेवराष्ट्रियोद्यानम् इत्यपि नाम अस्ति । भरतपुरनगरस्य नगरस्थापकः अस्मिन्नगरे एकं दुर्गं निर्मापितवान् अस्ति । दुर्गस्य गोपुरयोः क्रमेण फतेह भुर्ज्, जवाहर भुर्ज् इति नाम । राजा सूरजमल्ल आङ्ग्लान्, मुघलराज्ञः च जित्वा विजयस्मरणिकात्वेन दुर्गं निर्मापितवान् इति मान्यता ।

Sambhars are common sight at Keoladeo Ghana National Park Bharatpur India.jpg

भौगोलिकम्

भरतपुरमण्डलस्य विस्तारः ५०६६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे अलवरमण्डलं, दौसामण्डलं च, उत्तरे हरियाणाराज्यं, दक्षिणे करौलीमण्डलम् अस्ति । अस्मिन् मण्डले बाणगङ्गा, रूपारेल, गम्भीर इत्येताः तिस्रः नद्यः प्रवहन्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं भरतपुरमण्डलस्य जनसङ्ख्या २५४९१२१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५०३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.३२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७७ अस्ति । अत्र साक्षरता ७१.१६ % अस्ति ।

Great Egret at Keoladeo Ghana National Park, Bharatpur, India.jpg
Keoladeo Ghana National Park, Bharatpur, Rajasthan, India.jpg

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-

  • बयन
  • भरतपुर
  • दीग
  • कमन
  • कुमहर
  • नाद्वाई
  • नगर
  • पहारी
  • रूपबास

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=भरतपुरमण्डलम्&oldid=5741" इत्यस्माद् प्रतिप्राप्तम्