बोधिसत्त्वः (नाटकम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

समस्ते विश्वे अत्यन्तं विख्यातः, संस्कृतभाषायाः महान् ज्ञाता प्रसिद्धः इतिहासकारः डी.डी. कोसंबीमहोदयः मराठीभाषायां बोधिसत्त्व इति नाटकं विरचितवान्. अयं ग्रन्थः प्रथमतया 1945 तमे वर्षे एव प्राकाश्यं गतः आसीत्. दत्तात्रेय बालकृष्ण कालेलकरः अस्य मराठीमूलग्रन्थस्य प्रस्तावनां लिखितवान् आसीत्। अस्मिन् नाटके चत्वारः अंकाः सन्ति।

राजकुमारः सिद्धार्थगौतमः वृद्ध-रुग्ण-शव-संन्यासिनः संवीक्ष्य रात्रौ गृहत्यागमकरोत् इति घटनां काल्पनिकीं प्रक्षिप्तां वा मत्वा कोसंबीमहोदयः त्रिपिटकसम्मतां घटनां अत्र उपस्थापयत्। अन्येष्वपि ग्रन्थेषु सः शाक्य-कोलियराज्ययोर्मध्ये प्रवाहितायाः रोहिणीनद्याः जलविवाद एव सिद्धार्थाभिनिष्क्रमणस्य ऐतिहासिकं कारणमासीत् इति बहुभिः प्रमाणैः पर्यपुष्यत। किन्तु तेषु तेषु ग्रन्थेषु उपस्थापितानि प्रमाणानि अपूर्णानि एव भान्ति स्म, तर्हि त्रिपिटकस्थ-प्रमाणैः परिपुष्टा इयं घटना इतो{पि स्पष्टतया उपस्थापनीया इति धिया सः ‘बोधिसत्त्वः’ इति चतुःअङ्कात्मकं लघुनाटकं व्यरचयत्। नाटके{स्मिन् सः त्रिपिटकसम्मतां सिद्धार्थाभिनिष्क्रमणस्य कारणीभूतां घटनाम् अत्यन्तं रोचकतया उपस्थापितवान्।

डा. प्रफ़ुल्लगडपालेन मराठीभाषातः अस्य बोधिसत्त्व इति नाटकस्य संस्कृतानुवादः विहितः. राष्ट्रियसंस्कृतसंस्थानम् (मानितविश्वविद्यालयः) [56-57, इन्स्टीट्यूशनल एरिया, जनकपुरी, नवदेहली-110058] इत्यस्मात् संस्थानात् अयं ग्रन्थः 2013 तमे वर्षे प्रकाशितो जातः।

इमान्यपि दृश्यताम्

https://commons.wikimedia.org/wiki/File:Bodhisattvah.jpg

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=बोधिसत्त्वः_(नाटकम्)&oldid=6002" इत्यस्माद् प्रतिप्राप्तम्