बृहत्साम तथा साम्नां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।

पदच्छेदः

बृहत् साम तथा साम्नां गायत्री छन्दसाम् अहम् मासानां मार्गशीर्षः अहम् ऋतूनां कुसुमाकरः ॥ ३५ ॥

अन्वयः

तथा साम्नां बृहत्साम । छन्दसाम् अहं गायत्री । मासानां मार्गशीर्षः अहम् । ऋतूनां कुसुमाकरः ।

शब्दार्थः

तथा = एवम्
साम्नाम् = साम्नाम्
बृहत्साम = बृहत्साम
छन्दसाम् = छन्दोविशिष्टानां मन्त्राणाम्
अहं गायत्री = अहं गायत्री ऋक्
मासानाम् = द्वादशमासानाम्
अहं मार्गशीर्षः = अहम् आग्रहायणिकः मासः
ऋतूनाम् = षण्णाम् ऋतूनाम्
कुसुमाकरः = वसन्तः ।

अर्थः

तथा सामसु अहं बृहत्साम अस्मि । छन्दोविशिष्टानाम् ऋचाम् अहं गायत्रीच्छन्दः अस्मि । द्वादशसु मासेषु मार्गशीर्षः अहम् । षण्णाम् ऋतूनाम् अहं वसन्तः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=बृहत्साम_तथा_साम्नां...&oldid=1922" इत्यस्माद् प्रतिप्राप्तम्