बुद्धेर्भेदं धृतेश्चैव...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
- प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवविंसशतितमः(२९) श्लोकः ।
पदच्छेदः
बुद्धेः भेदं धृतेः च एव गुणतः त्रिविधं शृणु प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
अन्वयः
धनञ्जय ! गुणतः त्रिविधं बुद्धेः धृतेः च एव भेदं पृथक्त्वेन अशेषेण प्रोच्यमानं शृणु ।
शब्दार्थः
- धनञ्जय = अर्जुन !
- गुणतः = गुणानुसारेण
- बुद्धेः = धियः
- धृतेः = धैर्यस्य
- भेदम् = विभागम्
- पृथक्त्वेन = विभागेन
- अशेषेण = समग्रम्
- प्रोच्यमानम् = कथ्यमानम् ।
अर्थः
अर्जुन ! एवं ज्ञानकर्मकर्तॄणां त्रैविध्यं प्रदर्शितम् । अधुना बुद्धेः धृतेश्च तत्कृतं भेदम् अशेषं गुणदोषनिरूपणसहितं विवृणोमि । तदाकर्णय ।