बीडमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

सञ्चिका:Sug.cane.jpg
ईक्षु-सस्योत्पादनम्
सञ्चिका:Snflowers.jpg
सूर्यमुखी-उत्पादनम्
सञ्चिका:Dharur.jpg
धरूर कोट:
सञ्चिका:Swami ramanandtirtha.jpg
स्वामी रामानन्दतीर्थ
सञ्चिका:Paralivaidyanath.jpg
परळी वैद्यनाथ ज्योतिर्लिङ्गम्
देवी अम्बाजोगाई

बीडमण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं बीड इत्येतन्नगरम् | द्वादशज्योतिर्लिङ्गेषु अन्यतमं 'परळी वैजनाथ' इत्येतल्लिङ्गम् अस्मिन्नेव मण्डले अस्ति । स्वामी रामानन्दतीर्थस्य जन्मभूमिः इत्यपि बीडमण्डलस्य प्रसिद्धिः । यवनाल(ज्वारी)-उत्पादकमण्डलम् इत्यपि अस्य मण्डलस्य प्रसिद्धिः ।

इतिहासः

बीडमण्डलपरिसरस्य इतिहासः पुराणेषु अपि उल्लिखितः दृश्यते । बीड इत्येतन्नगरे स्थितं जटा-शङ्कर-मन्दिरसम्बद्धा रामायणकथा तत्रस्थैः जनैः कथ्यते । अतः रामायणकालात् मण्डलस्य इतिहासः उपलभ्यते । सातवाहन-कलचुरी-वाकाटक-कदम्ब-बहमनीराजानां आधिपत्यमत्रासीत् । चालुक्यवंशीयराजकन्यया चम्पावती इत्यनया अस्य नगरस्य नाम 'चम्पावती' इति निर्धारितमासीत् । अनन्तरम् अल्लाउद्दीन खिल्जी(१२९६-१३१६) इत्यनेन यदा एषः प्रदेशः जितः तदा अस्य 'बीड' इति नामकरणं कृतम् । मोघलाधिपत्ये राक्षसभुवन, खर्डा इत्यत्र ये युद्धे अभवतां ततः बीडपरिसरः मराठासाम्राज्ये समाविष्टः जातः । एषः प्रदेशः स्वातन्त्र्य-पूर्वकाले हैदराबाद-संस्थाने आसीत्, अनन्तरं महाराष्ट्रे विलीनं जातम् ।

भौगोलिकम्

बीडमण्डलं मराठवाडा विभागे स्थितं मण्डलम् । बीडमण्डलस्य विस्तारः १०,६९३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि परभणीमण्डलं, पश्चिमदिशि अहमदनगरमण्डलम्, उत्तरदिशि जालनामण्डलम्, औरङ्गाबादमण्डलं च, दक्षिणदिशि लातूरमण्डलम्, उस्मानाबादमण्डलं च अस्ति । गोदावरी नदी, माञ्जरा, सिन्दफणा, बिन्दुसरा, वाण इत्येताः अस्मिन्मण्डले प्रवहन्त्यः प्रमुखनद्यः सन्ति ।

कृष्युत्पादनम्

आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनालः (ज्वारी), 'बाजरी', 'तूर', माषः, कार्पासः, कलायः इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ यवनालः (ज्वारी), गोधूमः, चणकः, कुसुम्भं(करडई) इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । एतान् विहाय इक्षुः, सूर्यमुखी (Sunflower), बहूनि फलानि च उत्पाद्यन्ते अत्र । बीडमण्डले कृषिः वृष्ट्यवलम्बिताऽस्ति ।

जनसङ्ख्या

बीडमण्डलस्य जनसङ्ख्या(२००१) २५,८५,०४९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.६१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३६ अस्ति । अत्र साक्षरता ७६.९९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति ।

  • बीड
  • आष्टी
  • पाटोदा
  • शिरूर
  • गेवराई
  • अम्बाजोगाई
  • वडवणी
  • केज
  • धारूर
  • परळी वैजनाथ
  • माजलगाव

व्यक्तिविशेषाः

मण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । गणितज्ञस्य द्वितीयभास्कराचार्यस्य जन्मस्थानमिदम् इति कथ्यते । मराठवाडा-मुक्तिसङ्ग्रामस्य नेता स्वामी रामानन्दतीर्थः बीडमण्डलनिवासी आसीत् । तस्य नेतृत्वे बीडमण्डलपरिसरजनाः मराठवाडा मुक्तिसङ्ग्रामे भागम् ऊढवन्तः । सन्तकवेः दासोपन्त इत्येतस्य जन्मभूमिः अपि इयमेव ।

वीक्षणीयस्थलानि

बीडमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।

  • परळी-वैजनाथ
  • कङ्कलेश्वरमन्दिरम्
  • धारूर-दुर्गः
  • अम्बेजोगाई दुर्गः
  • आम्बेजोगाई/अम्बेजोगाई मन्दिरम्
  • पाटोदा इत्यत्र रामेश्वरमन्दिरम्
  • नायगाव-अभयारण्यम्
  • सावरगाव इत्यत्र मच्छिन्द्रनाथस्य समाधिस्थानम्
  • भगवान् गड
  • गहिनीनाथ गड
  • खडकवाडी इत्यत्र कानिफनाथ गड
  • धर्मापुरी गड
  • पिम्पळवण्डी इत्यत्र अश्वलिङ्गमन्दिरम्
  • गेवराई इत्यत्र बऱ्हाणपुर

बाह्यसम्पर्कतन्तुः


फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=बीडमण्डलम्&oldid=2242" इत्यस्माद् प्रतिप्राप्तम्