बीजपूरफलरसः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
कूपीषु संरक्षितः बीजपूरफलरसः
बीजपूरफलरसः
रक्तवर्णस्य बीजपूरफलानि
श्वेतवर्णस्य बीजपूरफलम्

बीजपूरफलस्य रसः एव बीजपूरफलरसः । एतत् बीजपूरफलम् आङ्ग्लभाषायां Guava इति उच्यते । अस्य रसः Guava Juice इति उच्यते । बीजपूरफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य बीजपूरफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि बीजपूरफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं बीजपूरफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । फलस्य वर्णस्य रुचेः च अनुगुणं फलरसस्य वर्णः रुचिः च परिवर्तते ।

फलरसस्य निर्माणम्

अस्य बीजपूरफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमं बीजपूरफलं प्रक्षाल्य त्वक् निष्कास्य बीजानि पृथक् करणीयानि । तदनन्तरं लघु लघु खण्डाः करणीयाः । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.bharatpedia.org/index.php?title=बीजपूरफलरसः&oldid=10681" इत्यस्माद् प्रतिप्राप्तम्