बीकानेरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


बिकानेरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बीकानेरनामकं नगरम् ।

Laxmi Niwas Palace.jpg
Lalgarh palace bikaner2.jpg
Lalgarh palace bikaner.jpg
Anup Mahal, Junagarh Fort, Bikaner.jpg

भौगोलिकम्

बीकानेरमण्डलस्य विस्तारः ३०२४७.९० अस्ति । अस्य पूर्वे चुरूमण्डलं, पश्चिमे पाकिस्थानदेशः, उत्तरे श्रीगङ्गानगरमण्डलं, दक्षिणे जोधपुरमण्डलं, नागौरमण्डलं च अस्ति । अस्मिन् मण्डले इन्दिरा गान्धी कुल्या अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बीकानेरमण्डलस्य जनसङ्ख्या २३६७७४५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४१.४२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०३ अस्ति । अत्र साक्षरता ६५.९२ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  • बीकानेर
  • नोखा
  • लूणकरणसर
  • खाजूवाला
  • डुङ्गरगढ
  • कोलायत

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • देशनो के करनी माता मन्दिरम्
  • जुनागढ किला
  • थार मरुभूमिः
  • लक्ष्मीनिवास-राजभवनम्
  • लालगढ-राजभवनम्

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=बीकानेरमण्डलम्&oldid=4444" इत्यस्माद् प्रतिप्राप्तम्