बाल गङ्गाधर तिलक

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

बालः बाल गङ्गाधरः स्वकुटुबज्येष्टैः सह

प्रवेशः

बालगङ्गाधर तिलकः (क्रि.श.१८५६ तः १९२०) कश्चन महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रतायाः आन्दोलनस्य प्रसङ्गे सः अघोषयत्‌ स्वराज्यम्‌ अस्माकं जन्मसिद्धः अधिकारः, तस्य प्राप्तेः अनन्तरमेव मम विरामः इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशा एतेनैव अङ्कुरितः । अनेन एतं राष्ट्रियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नायकः सन् लोकमान्यः इत्येव ख्यातः जातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतं, हिन्दूधर्मं, गणितं, खगोलशास्त्रं च गभीरतया अधीतवान् आसीत् । त्यस्य जन्मः चित्पावनब्राह्मणकुले आस। ो

वैयक्तिकजीवनम्

बालगङ्गाधरतिलकस्य जन्म क्रि.श.१८५६तमे वर्षे जुलै २३तमे दिने भारतस्य महाराष्ट्रराज्ये रत्नगिरिमण्डले मध्यमस्तरीये कुटुम्बे अभवत् [१]। पिता गङ्गाधरपन्तः, माता पार्वतीबायी । बाल्ये एव बुद्धिमतः तिलकस्य गणिते अतीव आसक्तिः आसीत् । बालः दशवर्षीयः यदा आसीत् तदा पितुः पुणेनगरं प्रति स्थानपरिवर्तनं जातम् । बालः वेर्नाक्युलर् आङ्ग्लविद्यालयं प्राविशत् । पुणेगमनानन्तरं स्वल्पावधौ एव माता दिवङ्गता । ततः षड्वर्षाणाम् अनन्तरं पिता अपि दिवङ्गतः । दुर्बलशरीरः बालः देशसेवा समीचीनतया करणीया चेत् शरीरं दृढतमं स्यात् इति विचिन्त्य व्यायामादीनाम् अभ्यासद्वारा परिश्रमपूर्वकं दृढं शरीरं सम्पादितवान् । सत्यभामा अस्य पत्नी । महाविद्यालयात् आधुनिकविद्यां प्राप्तेषु युवसु बालगङ्गाधरः अपि अन्यतमः अभवत् । पदवीं प्राप्य पुणे (पुण्यपत्तनम्) नगरे स्वायत्तशालायां गणिताध्यापकत्वेन कार्यम् आरब्धवान् । कञ्चित्कालानन्तरं तम् उद्योगं त्यक्त्वा पत्रकारः अभवत् । पाश्चिमात्यशिक्षाक्रमः भारतीयसनातनपरम्परां दूषयति अपि च भारतस्य विद्यार्थिषु हीनभावं जागर्ति इति निश्चित्य अस्य आधुनिकशिक्षाप्रणाल्याः विरोधम् अकरोत् । छात्राणां कृते उत्तमा शिक्षा लभेत इति उद्देशेन पुणेनगरे डेक्कन् एजुकेषन् सोसैटि इति शालाम् उपाक्रमत् [२]

राजकीयजीवनम्

तिलकमहोदयेन उपक्रान्तः केसरी इति मराठीभाषायाः वार्तापत्रिका अतिशीघ्रं प्रसिद्धा अभवत् । अस्यां पत्रिकायां जनाः स्वाभिप्रायान् प्रकटयितुम् अर्हन्ति स्म । क्रि.श. १९०५तमे वर्षे बङ्गालस्य विभजनस्य विरोधं केसरीपत्रिका प्रबलतया अकरोत् । क्रि.श.१८९०तमे वर्षे तिलकमहोदयः काङ्ग्रेस् पक्षं प्रविष्टवान्, स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं च खण्डितवान् । गोपाकृष्ण गोखलेमहोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये बङ्गालस्य बिपिन चन्द्रपालः पञ्जाबस्य लाला लजपत राय् च तिलकमहोदयस्य अनुमोदनं कृतवन्तौ । क्रि.श. १९०७तमे वर्षे सम्भूते सूरत् अधिवेशने काङ्ग्रेस्-पक्षः तिलकस्य नेतृत्वे घर्मदलः इति गोखलेवर्यस्य नेतृत्ते मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.१९०६तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं मोहम्मद् अलि जिन्ना इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः एषः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.१९०८तः१९१४तमवर्षपर्यन्तं बर्मादेशस्य (ब्रह्मदेशः) मंडाले कारावासम् अनुभूतवान् [३]। विमोचनानन्तरं स्वस्य सहचरराष्ट्रवादिभिः सह तिलकमहोदयः क्रि.श.१९१६तमे वर्षे काङ्ग्रेस्-पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् ।

सामाजिकयोगदानानि

बालगङ्गाधर तिलकमहोदयः मूलतः अद्वैतवेदान्तस्य प्रतिपादकः। अद्वैतसिद्धान्तस्य "ज्ञानादेव तु कैवल्यम्" इति वचने तस्य विश्वासः नासीत् । अतः तत्स्मानं पूरकं च कर्मयोगं तत्र योजितवान् । विवाहस्य वयसः कनिष्ठमानः इत्यादीनि सामाजिकपरिवर्तनानि आनीतवान् । मद्यपाननिषेधस्य विषये तस्य अतीव प्रमतिः आसीत् । शिक्षायाः राजकीयस्य च जीवनविषये अस्य चिन्तनानि प्रभावयुतानि आसन् । देवनागरीलिपिम् उपयुज्य लिख्यमाना हिन्दिभाषा राष्ट्रभाषा भवेत् इति प्रथमतया उक्तवान् तिलकः एव । अग्रे महात्मा गान्धी अपि एतं विषयं गाढम् अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा आङ्ग्लभाषा अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष् कालात् अद्यपर्यन्तमपि प्रादेशिकत्वेन भाष्यमाणाः सन्ति । अस्मिन् अपि तिलकमहोदयस्य योगदानम् अस्ति एव । तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः गणेशोत्सवः । भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशीम् आरभ्य अनन्तचतुर्दशीपर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः मिलित्वा आचर्यते । स्वायत्तं धार्मिकाचरणं सङ्घटनस्य व्याजेन सार्वजनिकोत्सवत्वेन परिवर्तितवान् । एतम् उत्सवम् अवलम्ब्य एव जननायकाः जनसम्पर्कम् अकुर्वन् । तिलकमहोदयेन आरब्धा इयम् उत्सवपरम्परा इदानीमपि विशेषतः महाराष्ट्रराज्ये अस्ति । तिलकमहोदयः परदेशीयवस्तूनि तिरस्कृत्य स्वदेशीयवस्तूनि उपयोक्तुं जनजागरणं कृतवान् । तदानीम् एतत् स्वदेशीयान्दोलनं विशेषरूपेण जनेषु देशभक्तिं समवर्धयत् [४]

बालगङ्गाधरतिलकः

तिलकोत्तरवर्षाणि

तिलकमहोदयः गान्धिमहात्मनः अहिंसात्मकं सत्याग्रहं दूषयति स्म । कदाचित् क्रान्तिकारीति परिगणितः कालान्तरेण प्रौढविचारशीलः इति प्रसिद्धः अभवत् । स्वातन्त्र्यान्दोलनं सामान्यजनानां समीपं नीतवान् अयं तिलकमहोदयः स्वातन्त्र्यसमरस्य जनकः इत्येव प्रथितः । भारतीयसंस्कृतेः इतिहासस्य धर्मस्य च विषये लेखनेन भारतीयानां देशभक्तिं जागरितवान् । तिलकमहोदयं राजकीयस्य आध्यात्मिकस्य च नायकः इति एतस्मिन् विषये महात्मा गान्धी अस्य उत्तराधिकारी इति च जनाः भावयन्ति स्म । यदा बालगङ्गाधरतिलकः क्रि.श१९२०तमे वर्षे दिवङ्गतः तदा सम्मिलितानां द्विलक्षजनानां मध्ये गान्धिमहात्मा उक्तवान् यत् 'अयं आधुनिकभारतस्य जनकः' इति । तिलकमहोदयः दृढहिन्दुत्वस्य प्रतिपादकस्य विनायक दामोदर सावर्कर्महोदयस्य आराध्यः देवः अभवत् ।

बाह्यसम्पर्कतन्तुः

आकराः

फलकम्:Reflist

फलकम्:भारतस्य स्वातन्त्र्यसङ्ग्रामः


फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=बाल_गङ्गाधर_तिलक&oldid=10912" इत्यस्माद् प्रतिप्राप्तम्