बालाकोट् वैमानिकक्षिप्राक्रमणम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox military conflict

२०१९ तमे वर्षे फेब्रवरी मासस्य 2019 तमे दिनाङ्के पाकिस्तानस्य बालाकोट् एवं अन्ययोः स्थलद्वययोः भारतीयवायुसेनया क्षिप्राक्रमणं विहितम्। द्वादश मिराज्2000 विमानानानां साहाय्येन इदम् आक्रमणम् प्रवृत्तम्। भारतीय सैन्यस्य उपरि जैश् मुहम्मद् सङ्घटनेन पुल्वामा इत्यत्र कृतस्य आक्रमणस्य प्रत्युत्तररूपेण इदं वायुसेनायाः क्षिप्राक्रमणं प्रवृत्तम्। अस्मिन् आक्रमणे २५०-३०० परिमिताः उग्रगामिनः मृताः इति भारतीयवायुसेनायाः स्पष्टीकरणं वर्तते[१]

पृष्ठभूमिः

१४ फेब्रवरी २०१९ तमे दिनाङ्के जैश् मुहम्मद् उग्रगामिभिः भारतीयसेनायाः उपरि आक्रमणं कृतम्। अस्मिन् विस्फोटकाक्रमणे ४४ सि.आर्.एफ्.सैनिकाः मृताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी उग्रान् प्रतीकर्तुं सेनायै परमाधिकारं दत्तवान्। ततः वायुसेनया वैमानिकमाक्रमणं कृतम्।[२][३][४]

आक्रमणम्

मिराज् 2000 युद्धविमानम्

फेब्रवरी २६ तमे दिनाङ्के रात्रौ ३ वादने बालाकोट् इति स्थले जैश् ए मुहम्मद् सङ्घटनस्य शिबिरस्योपरि वैमानिकाक्रमणं कृतम्। सहस्र के.जि परिमितानि स्फोटकानि स्फोटितानि। समाने समये एतदतिरिच्य अन्यत्र स्थलद्वययोरपि एतादृशम् आक्रमणं भारतीयवायुसेनया कृतम्।[५]

परिणामः

पाकिस्तानेनापि फेब्रवरी २८ तमे दिनाङ्के भारतस्योपरि वैमानिकाक्रमणस्य प्रयासः कृतः। पाकिस्तानस्य अधीने मिराज् विमानयानं आसीत्। भारतेन ८ मिग् विमानानां साहाय्येन पाकिस्तानस्य २४ विमानानि विस्थापितानि। अस्मिन् समये भारतस्य विमानयोद्धा अभिनन्दनः पाकिस्तानीयैः ग्रहीतः। ततः दिनद्वयानन्तरं तस्य हस्तान्तरणं पाकिस्तानेन कृतम्।[६][७]


उल्लेखाः

फलकम्:Reflist