बार्बर मेक्लिन्टाक्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

बार्बर मेक्लिन्टाकया उपयुक्तं सूक्ष्मदर्शकं तथा यावानलश्च

(कालः – १९०२ तः १९९२)

एषा बार्बर मेक्लिन्टाक् (Barbara Mcclintock) प्रसिद्धा महिला आनुवंशिकशास्त्रस्य विज्ञानिनी, तथा च नोबेल्–पुरस्कारं प्राप्तवती प्रथमा विज्ञानिनी । एषा १९०२ तमे वर्षे अमेरिकादेशे जन्म प्राप्नोत् । एषा बार्बर मेक्लिन्टाक् १९२७ तमे वर्षे "कार्नेल्”–विश्वविद्यालयतः सस्यविज्ञाने डाक्टरेट्पदवीं प्राप्नोत् । महिला इति कारणात् एव उद्योगे बहुविधानि कष्टानि, अनादरः च सम्मुखीकरणीयः अभवत् अनया बार्बर मेक्लिन्टाकया । तस्मात् कारणात् जुगुप्सिता सा बार्बर मेक्लिन्टाक् कार्नेल्–विश्वविद्यालये क्रियमाणं संसोधनं मध्ये एव परित्यज्य "मिस्सोरि”–विश्वविद्यालयम् अध्यापिकारूपेण प्राविशत् । तदनन्तरं १९४१ तमे वर्षे "हार्बर्”–विश्वविद्यालयं प्रविश्य संशोधनस्य अनुवर्तनम् अकरोत् । एषा बार्बर मेक्लिन्टाक् सस्यानां तथा प्राणिनां गुणलक्षणानि, जीवकोशस्य कार्याणि च निरूपयन्तः गुणाणवः (जीन्स्) पूर्वसूचनां विना एव अनिर्दिष्टरीत्या कार्यं निर्वहन्ति इति संशोधितवती । तान् गुणाणून् सा "कूर्दनगुणाणवः” (Jumping Jeens) इति अवदत् । एतस्य संशोधनस्य निमित्तं १९८३ तमे वर्षे सा बार्बर मेक्लिन्टाक् "नोबेल्”-पुरस्कारम् अपि प्राप्नोत् ।

एतस्याः बार्बर मेक्लिन्टाकायाः संशोधनपर्यन्तं गुणाणवः वर्णातन्तून् (क्रोमोजोन्स्) अवलमबन्ते इति चिन्तितम् आसीत् । एषा गुणाणवः हारे योजितानि मौक्तिकानि इव भवन्ति इति विवृणोत् । तस्य संशोधनस्य नाम "मोबैल् जेनिटिक् एलिमेण्ट्” इति अवदत् च । एषा बार्बर मेक्लिन्टाक् एतत् संशोधनं १९४० तमे वर्षे न्यूयार्कदेशस्य कोल्ड्स्ट्रिङ्ग् हार्बर्–प्रान्तस्य वाशिङ्ग्टन् डि.सि. नगरे विद्यमाने कार्निजिसंस्थायाः आनुवंशिकप्रयोगालये आरब्धवती । सा संशोधनार्थं यावानलं (Indian Corn) चितवती आसीत् । प्रथमं यावानलस्य वर्णातन्तून् अभिज्ञाय तेषां वर्णपूरणं कृत्वा भिन्नातायाः अभिज्ञानस्य तन्त्रं निरूपयत् । तस्याः बार्बर मेक्लिन्टाकायाः संसोधनावसरे यावानलस्य पर्णानि तथा बीजानि वर्णानां ग्रहणे साम्यतां प्रादर्शयन् । विरलतया भिन्नता अपि प्रदर्शिता । एवं भिन्नातायाः अथवा उत्परिवर्तनस्य वा कारणं गुणाणवः एव इति सा प्रतिपादयत् । गुणाणूनां तादृशस्य व्यवहारस्य कारणं परिसरः अपि भवति इति सा संशोधितवती । अतिवृष्टिः अनावृष्टिः चापि प्रभावं जनयतः इत्यपि सा संशोधितवती । एवं कोशकेन्द्रे विद्यमानानां सर्वेषां वर्णतन्तूनाम् उपरि, गुणाणूनाम् उपरि यः प्रभावः परिसरस्य सञ्जायते तं सा "जिनोमिक् शाक्” इति अवदत् । एतत् सम्शोधनं यथा यावानले अन्वितं भवति तथैव उच्चवर्गीयाणां जीवजातीनां विषये अपि अन्वितं भवति । एषा बार्बर मेक्लिन्टाक् १९९२ तमे वर्षे ९० तमे वयसि इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=बार्बर_मेक्लिन्टाक्&oldid=988" इत्यस्माद् प्रतिप्राप्तम्