बहूनि मे व्यतीतानि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
श्रीभगवान् उवाच -
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः

बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन 'तानि अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

अन्वयः

परन्तप, अर्जुन ! बहूनि मे तव च जन्मानि व्यतीतानि । तानि जन्मानि सर्वाणि अहं वेद । त्वं न वेत्थ ।

शब्दार्थः

परन्तप = अर्जुन !
मे तव च = मम च ते च
बहूनि = नैकानि
जन्मानि = जनूंषि
व्यतीतानि = अतिक्रान्तानि
तानि सर्वाणि = तानि असङ्ख्येयानि जनूंषि
अहम् = अहम्
वेद = जानामि
त्वम् = भवान्
न वेत्थ = न जानाति ।

अर्थः

हे अर्जुन ! मम च तव च जन्मानि असङ्ख्याकानि सम्पन्नानि । परन्तु तानि सर्वाणि भवान् ज्ञातुं न शक्नोति । अहं तु जानामि ।

शाङ्करभाष्यम्

या वासुदेवेऽनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन् श्रीभगवानुवाच यदर्थो ह्यर्जुनस्य प्रश्नः- बहूनीति। बहूनि मे मम व्यतीतान्यतिक्रान्तानि जन्मानि तवच हेऽर्जुन, तान्यहं वेद जाने सर्वाणि। न त्वं वेत्थ न जानीषे। धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात्। अहं पुनर्नित्य शुद्धबुद्धमुक्त स्वभावत्वादनावरणज्ञानशक्तिरिति वेदाहं हेपरंतप।।5।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=बहूनि_मे_व्यतीतानि...&oldid=5737" इत्यस्माद् प्रतिप्राप्तम्