बसन्ती बिस्ट्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

बसन्ती उत्तराखण्डस्य कस्मिश्चित् ग्रामे १९५३ तमे वर्षे जन्म प्राप्तवती । सा काचित् उत्तराखण्डस्य जानपद गायिका । जागर् जानपदगानेन सा उत्तराखण्डे प्रसिद्धा वर्तते । सा शास्त्रीयशैल्या गायति । सा उत्तराखण्डीया जानपदगायिका इति प्रसिद्धा वर्तते । आकाशवाण्याः दूरदर्शनस्य च ग्रेड् ए गायिका वर्तते ।  सा पद्मश्रीपुरस्कृता अपि । [१][२]

उत्तराखण्डराज्यं पूर्वस्मिन् काले उत्तराञ्चलम् इति नाम्ना प्रसिद्धम् आसीत् । इदं राज्यं भारतस्य उत्तरे भागे विद्यते । स्वाभाविकवलातावरणकारणतः इदं राज्यं प्रसिद्धं वर्तते ।

आरम्भिकजीवनम्

बसन्तीबिस्ट् उत्तराखण्डस्य चमोलीजिल्लायाः लुवानीग्रामे १९५३ तमे वर्षे जाता । सा पञ्चदशे वयसि कञ्चन सैनिकम् ऊढवती । पञ्जाबराज्ये सा सङ्गीतं पठितवती । परन्तु सा बाल्यादारभ्य गायन्ती आसीत् ।


सा पञ्चमकक्ष्यापर्यन्तं ग्रामीणशालायां पठितवती परन्तु अग्रे शिक्षणं प्राप्तुं न शक्तवती । यतो हि शाला दूरे वर्तमाना पादाभ्यां प्राप्तुम् अशक्या आसीत् । .[३]

सङ्गीतजीवनम्

बसन्त्याः सङ्गीतजीवनं तस्याः चत्वारिंशे वयसि आरब्धम् । तदा सा तस्याः परिवारपोषणे व्यस्ता आसीत् । यदा सा जलन्धरं गतवती तदा सङ्गीतपठनं तत्र आरब्धवती । जलन्धरस्य प्राचीनकलाकेन्द्रं तस्याः प्रथमा पाठशाला आसीत् । सा तत्र अधिकवयस्का आसीत् इति कारणतः लज्जाम् अनुभूतवती । तत्रत्याः अन्ये छात्राः युवानः आसन् । यदा तस्याः पुत्र्याः शिक्षिका तां हार्मोनियंवादनं पाठितवती तदानीं प्रथमं वृत्तिपरं प्रदर्शनं दत्तवती । [३] तदनन्तरं सार्वजनिककार्यक्रमेषु भागमूढ्वा गायनम् आरब्धवती । तत्र भजनानि चलचित्रगीतानि च गायति स्म । पत्युः निवृत्त्यनन्तरं डेहराडून् नगरे वासमारभ्य आकाशवाण्यां कार्यम् आरब्धवति । १९९६ तमे वर्षे नैनिताल् आकाशवाण्यां ए ग्रेड् कलावित् रूपेण कार्यम् आरब्धवती । सङ्गीतविषये कदाचित् सा इत्थं स्वाभिप्रायं प्रकटितवती । फलकम्:Quote

किञ्चित् कालानन्तरं ग्रामे गीयमानं जागर् गानं विशिष्टं वर्तते इति ज्ञातवती । जागर् गानं समग्रायां रात्रौ देवस्तुतिपरकं क्रियते । उत्तराखण्डस्य पर्वतीयप्रदेशेषु इदं गायनं क्रियते । बसन्ती बिस्ट् एतत् गायनमधिकृत्य परिश्रम्य प्राचीनशैल्या गानं कृत्वा जनादरं प्राप्तवती । बसन्त्याः उत्तराखण्डस्य पहाडीशैल्याः गायनं प्रसिद्धं वर्तते ।

वैयक्तिकं जीवनम्

बसन्त्याः पतिः निवृत्तः सैनिकः । तस्याः पुत्रः अपि सैनिकरूपेण वायुसेनायां कार्यं कृतवान् । तस्याः पुत्री अपि सैनिकमेव परिणीतवती ।

पुरस्काराः

  • राष्ट्रीयमातोश्री-अहल्यादेवीसम्मानम् (मध्यप्रदेशसर्वकारस्य)
  • पद्मश्रीः परस्कारः(2017)
  • टीलु रौटली नारी शक्तिसम्मानम् (उत्तराखण्डसर्वकारस्य)

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=बसन्ती_बिस्ट्&oldid=3436" इत्यस्माद् प्रतिप्राप्तम्