बन्धुरात्मात्मनस्तस्य...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः

बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् ॥

अन्वयः

येन आत्मना आत्मा एव जितः तस्य आत्मनः आत्मा बन्धुः । अनात्मनः तु आत्मा एव शत्रुवत् शत्रुत्वे वर्तेत ।

शब्दार्थः

येन = येन पुरुषेण
आत्मना = स्वेन
आत्मा एव = मनः एव
जितः = विषयेभ्यः निवर्तितम्
तस्य = तादृशस्य पुरुषस्य
आत्मा = मनः
आत्मनः = स्वस्य
बन्धुः = हितः
अनात्मनः तु = अवशीकृतमनस्कस्य तु
आत्मा एव = मनः एव
शत्रुवत् = शत्रुवत्
शत्रुत्वे = अपकरणे
वर्तेत = स्यात् ।

अर्थः

येन पुरुषेण मनः विषयेभ्यः विमुखीकृतं तस्य मनः बन्धुवत् हितकारि । यस्तु तादृशो न भवति तस्य तदेव मनः शत्रुवत् पीडाकारी । विषयासक्तं मनः बन्धकम्, तद्रहितं तु मोचकमिति यावत् ।

शाङ्करभाष्यम्

आत्मैव बन्धुरात्मैवं रिपुरात्मन इत्युक्तं तत्र किंलक्षण आत्मनो बन्धुः किंलक्षणो वात्मनो रिपुरुत्युच्यते-बन्धुरात्मात्मनस्तस्य तस्यात्मनः स आत्मा बन्धुर्येनात्मनात्मैवजितः आत्मा कार्यकरणसंघातो येन जितोवशीकृतः। जितेन्द्रिय इत्यर्थः। अनात्मनस्त्वजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेतात्मैव शत्रुवत्। यथाऽनात्मा शत्रुरात्मनोऽपकारे वर्तेतेत्यर्थः।।6।।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः