बनशङ्करी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
बनशङ्करिमन्दिरम्

बनशङ्करी -विशिष्टा शक्तिदेवता माया । कर्णाटकस्य बागलकोटेमण्डले बादामी समीपे विद्यमानं पवित्रक्षेत्रम् एतत् । बनशङ्करी शाकाम्बरी बनदेवी इत्यपि एतां देवीं कथयन्ति । अत्र प्राचीनः द्राविडमिश्रशैल्यां निर्मितः बनशङ्करी देवालयः अस्ति । विजयनगरसाम्राज्यकाले रचितः एषः। बनशङ्करी अस्य क्षेत्रस्य अधिदेवता अस्ति । देव्याः मूर्तिः अष्टबाहुयुता सिंहस्योपरि उपविष्टा अस्ति । प्रतिदिनं सहस्रशः जनाः अत्र आगच्छन्ति । जनवरीमासे अत्र मासं यावत् विशेषयात्रामहोत्सवः भवति । बनशङ्करीजात्रे इति जनाः कथयन्ति । देवालयस्य पुरतः पवित्रं हरिश्चन्द्रतीर्थम् इति सरः अस्ति । नवरात्रिसमये बनशङ्करीक्षेत्रे विशेषः उत्सवः भवति । पूर्णिमायां तेप्पोत्सवः भवति तन्नाम देव्याः नैकविहारोत्सवः (तेप्पोत्सव) प्रचलति । देवालये वासभोजनादिपूजाहोमादिव्यवस्था अस्ति ।

बनशङ्करिरथः
बनशङ्करिदेवालस्य परिसरः

मार्गः -

बादामीतः २५ कि.मी
गदगतः ५२ कि.मी ।
हुब्बळ्ळीतः १३३ कि.मी
"https://sa.bharatpedia.org/index.php?title=बनशङ्करी&oldid=3653" इत्यस्माद् प्रतिप्राप्तम्