फेस्बुक्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox website

Facebook on the Ad-tech 2010

फेस्बुक् इति नाम्ना काचित् सामाजिकजालकर्मसेवा विद्यते। एतस्य विमोचनं २००४ तमस्य वर्षस्य फरवरीमासे अभवत्। एतस्य स्वामित्वं सञ्चालनं च फेस्बुक्, इति निगमितेन क्रियते।[१], फेस्बुक् इत्यस्मिन् एकार्बुदाधिकाः सदस्याः सन्ति।[२] तेषां च अर्द्धाधिकाः फेस्बुक् इत्यस्य प्रयोगं जङ्गमोपकरणे कुर्वन्ति।[३] जालस्थलस्य प्रयोगात् पूर्वे प्रयोक्त्रा पञ्जीकरणं करणीयं भवति। ततः पश्चात् ते स्वकीयं वैयक्तिकं वृत्तं निर्मातुं शक्नुवन्ति। अन्यान् च सदस्यान् मित्रत्वेन योजयितुं शक्नुवन्ति, परस्परं च सन्देशानां विनिमयं कर्त्तुं शक्नुवन्ति। तेषु च सन्देशेषु स्वचालिताः सूचनाः अपि भवन्ति । अपरञ्च, सदस्याः सामान्याभिरुचिकान् समूहान् अपि प्रवेशितुं शक्नुवन्ति, तेषां च व्यवस्थापनं कार्यस्थलं, विद्यालयं, महाविद्यालयं अन्यं गुणं वाऽऽधृत्य भवति। अपि च सदस्याः स्वमित्राणि कार्यस्थलाज्जनाः अथवा घनिष्ठमित्राणि इति वर्गेषु अपि व्यवस्थापयितुं शक्नुवन्ति। अद्य दिने फेस्बुक इति माध्यमेन व्यापारमपि कर्तुं शक्नुवन्ति ।

फेस्बुक् इत्यस्य संस्थापना मार्क-जुकरबर्गः स्वकीयैः महाविद्यालयीयैः सकक्षकैः सह कृतवान्। ते च - एडवर्डो-सेवरिन्, एन्ड्र्यू-मैक्कोलम्, डस्टिन्-मोस्कोविट्ज्, तथा च क्रिस्-ह्यूग्स् इति।[४]

टीकाः

फलकम्:Reflist

सन्दर्भाः

फलकम्:Reflist

अधिकं पठनम्

बाह्यानुबन्धाः

फलकम्:Wiktionary फलकम्:Commonscat फलकम्:Spoken Wikipedia

"https://sa.bharatpedia.org/index.php?title=फेस्बुक्&oldid=1284" इत्यस्माद् प्रतिप्राप्तम्