फलकम्:मुख्यपृष्ठं - सुभाषितम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
एप्रिल् २०२४
मङ्गलवासरः
१६
०५:५६ UTC

अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥

विष्णुपुराणम् ३/९/३१

मुनिः सर्वदा सर्वेषां विषये उत्तमम् एव चिन्तयन् अभयप्रदानं कुर्वन् सञ्चरति। तस्य अन्यस्मात् कस्मात् अपि भयं न भवति। यत् भावयति तत् भवति। वयम् अन्येषां विषये यथा भावयामः यथा व्ययहरामः तथैव ते अपि अस्माकं विषये भावयन्ति व्यवहरन्ति च।