पौडीगढवालमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement पौडीगढवालमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पौरी इति नगरम् । पौडीगढवालमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।

भौगोलिकम्

पौडीगढवालमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि टिहरीगढवालमण्डलं, रुद्रप्रयागमण्डलं च, दक्षिणदिशि नैनितालमण्डलम्, उत्तरप्रदेशराज्यं च, पूर्वदिशि चमोलीमण्डलम्, अल्मोडामण्डलं च, पश्चिमदिशि हरिद्वारमण्डलं, देहरादूनमण्डलं च अस्ति ।

जनसङ्ख्या

पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६८६ ५२७[१] अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति फलकम्:Citation needed। अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- पौरी, श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार

वीक्षणीयस्थलानि

खिर्सु

खिर्सु-पर्वतः सर्वदा हिमाच्छादितः । हिमालयस्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । पौरी-नगरात् एकोनविंशतिः (१९) कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादिवसनस्य सुविधाः सन्ति ।

दूधतोरी

चलचित्रेषु हिमाच्छादिते मार्गे यदा नायकः स्रंसते, तदा जनाः स्वं तादृशे स्थले अनुमीयन्ते । परन्तु तदनुमानं दूधतोरी इतीदमं स्थलं सम्प्राप्य पूर्णं भवति । ३१,००० पादं यावति शिखरे स्थितः अस्ति दूधतोरी । पौरी-नगरात् शतम् (१००) कि.मी. दूरे स्थितं थालीसैन् इतीदं स्थलं बस-यानेन गत्वा ततः चतुर्विंशतिः (२४) कि.मी. चलित्वा गन्तव्यं भवति ।

कण्वाश्रमः

मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं विश्वामित्रर्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः इन्द्रः विश्वामित्रस्य घोरतपसा भितो जातः । विश्वामित्रर्षेः तपः भग्नाय इन्द्रः मेनकानामिकां अप्सरसं प्रैषयत् । विश्वामित्रर्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति इन्द्रः शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या शकुन्‍तला नाम्ना विख्यातास्ति । सा शकुन्‍तला हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः भरतः जातः । तस्य भरतस्य नाम्नैवास्माकं देशस्य नाम भारतवर्षमिति

फलकम्:Geographic location

टिप्पणी

फलकम्:Reflist

बाह्यानुबन्धः

http://dcteh.uk.gov.in/

http://tehri.nic.in/

http://www.euttaranchal.com/uttaranchal/pauri.php

http://villagemap.in/uttarakhand/tehri-garhwal.html

http://www.census2011.co.in/census/district/579-pauri-garhwal.html

फलकम्:उत्तराखण्डस्य मण्डलानि फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=पौडीगढवालमण्डलम्&oldid=5234" इत्यस्माद् प्रतिप्राप्तम्