पुनर्वसुः (नक्षत्रम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते पुनर्वसुः । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् पुनर्वसुः भवति सप्तमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

पुनर्वसुनक्षत्रम्

आकृतिः

पुनर्वसु कुलालचक्रं पञ्च - कुलालचक्राकृतौ विद्यमानानि पञ्च नक्षत्राणि ।

सम्बद्धानि अक्षराणि

के को हा ही - पुनर्वसुनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्

पुनर्नो देव्यदितिः स्पृणोतु एषा न देव्यदितिरनर्वा विश्वस्य भर्त्री जगतः प्रतिष्ठा । पुनर्वसू नः पुनरेतां यज्ञं देवा अभियन्तु सर्वे । हविषा वर्धयन्ती प्रियं देवानामप्येतु पाथः ।

पुनर्वसुनक्षत्रस्य अधिपतिः अदितिदेवः । ऋग्वेदस्य १-१०-६, २-२२-३, ६-१-१३ मन्त्रेषु विद्या आरोग्यं धनञ्च वसुशब्देन निर्दिष्टं दृश्यते । विशेषतया वसुः इत्यस्य अर्थः अन्नम् इति । नूतनस्य अन्नस्य उत्पत्तिः यदा तदा पुनर्वसुः प्रकटितः भवति । तैत्तिरीयब्राह्मणस्य कथनानुसारं विश्वस्य भरण-पोषण-प्रतिष्ठा दाता पापरहितः अदितिदेवः अस्माकं विषये प्रसन्नः अस्ति । पुनर्वसुः अदितिदेवश्च मिलित्वा आगच्छतः ।

आश्रिताः पदार्थाः

आदित्ये सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः ।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥

सत्ययुताः सत्यभाषिणः । औदार्ययुता दानशिलाः । शौचयुताः शुद्धाः परधनादिष्वलुब्धाः । कुलयुताः कुलीनाः । रूपयुताः सुरूपाः । धीयुता बुद्धिमन्तः । यशोयुता यशस्विनः । अर्थयुता धनिनः । उत्तमधान्यं कलमशाल्यादि । वणिजः कुराटाः । सेवाभिरताः सेवकाः । ते च सशिल्पिजनाः शिल्पिजनैः कुम्भकारप्रभृतिभिः सहिताः । एते सर्वे एवाऽऽदित्ये पुनर्वसौ ।

स्वरूपम्

शान्तिकपौष्टिकयात्राव्रतप्रतिष्ठानृपाहवाद्यखिलम् ।
भूषणवास्तुविधानं वाहनकृषिकर्म सप्तमे धिष्ण्ये ॥

पुनर्वसुनक्षत्रे शान्तिकर्म, पौष्टिककर्म, यात्रा, व्रतम्, प्रतिष्ठा, राज्ञः समस्तकृत्यम्, आभूषणं, वास्तुविधानम्, वाहनम्, कृषिकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

चरसंज्ञकनक्षत्राणि

श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ श्रवणत्रयं श्रवणं धनिष्ठा शतभिषगिति । आदित्यं पुनर्वसुः । आनिलं स्वातिः । ते आदियानिले च । एतानि पञ्च नक्षत्राणि । तानि च चरकर्मण्यस्थिरे कर्मणि हितानि प्रशस्तानि ।

पश्य

"https://sa.bharatpedia.org/index.php?title=पुनर्वसुः_(नक्षत्रम्)&oldid=10397" इत्यस्माद् प्रतिप्राप्तम्