पुनर्नवा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Italic title

पुणेनगरे प्रवृद्धं पुनर्नवासस्यम्

फलकम्:Taxobox

इदं पुनर्नवसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं प्रायः सर्वेषु अपि प्रदेशेषु वर्धते । अस्मिन् ०.०१ % यावत् सल्फेट् (पुनर्विन्), ६.४८ % यावत् पोटाषियं नैट्रेट् च भवतः । अस्य भस्मनि सल्फेट्, क्लोरैड्, नैट्रेट्, क्लोरेट् इत्यादयः अंशाः भवन्ति । पुनर्नवा सामान्यतः अकृषिभूमौ, शाद्वने, कृषिभूमौ च कुतृणमिव वर्धते । इयं भूमौ प्रसरन्ती वर्धते षागोलकाण्डा एषा अल्पशक्ता न भवति । अण्डाकारस्य पर्णानि पर्वणि अभिमुखं युक्तानि भवन्ति । पर्णस्य उर्ध्वभागस्य वर्णः अल्परक्तः, अधोभागस्य वर्णः धम्रः च भवति । पाडलवर्णस्य पुष्पाणि गुच्छरुपेण् पर्णस्य कक्षे विद्यमाने पुष्पमञ्चर्यां भवन्ति । केसरः पुष्पदलस्य नाले गुप्तं भवति ।

प्रभेदाः

पुनर्नवायाः अपरः प्रभेदोपि अस्ति । तस्य वैज्ञानिकं नाम बो चैनेन्सिस् (B. chinensis) । इदं सस्यं समान्यतः वृतेः समीपे प्रसरत् इव किञ्चित उन्नतं वर्धते । इदं सस्यं द्र्ष्टुं पुनर्नवा इव एव भवति, परं पुष्पकेसराः दलस्य नानात् बहिः प्रसृताः भवति । आयुर्वेदस्य शास्त्रीयग्रन्थेषु पुनर्नवायाः भेदद्वयं वदन्ति रक्तपुनर्नवा, श्वेतपुनर्नवा च ।

आयुर्वेदस्य अनुसारम् अस्य पुनर्नवसस्यस्य प्रयोजनानि

अस्य पुनर्नवसस्यस्य रसः मधुरः, कषायः, तिक्तः च ।

  • इदं पुनर्नवसस्यम् अनुलोमकं, मूत्रलं (Diuretic), वामकं (Emetic) चापि ।
  • इदम् औषधेषु चूर्णरूपेण, कल्करूपेण, रसरूपेण, तैलरूपेण, कषायरूपेण च उपयुज्यते ।
  • इदं सर्वविधां मूत्रजनकाङ्गस्य समस्यां परिहरति ।
  • इदं हृदयसमस्यायां, यकृत्-बाधायां, मूत्रपिण्डानां समस्यायाः कारणात् जाते जलोदररोगे च उपयुज्यते ।
  • कामलारोगे, यकृत्-रोगे च अस्य रसः मधुना सह सेवनीयः ।
  • अस्य पुनर्नवसस्यस्य मूलेभ्यः निर्मितं कषायं चूर्णं चापि अनुलोमकत्वेन उपयुज्यते ।
  • “गोनोरिया” नामके रोगे, आन्तरिकेषु शोथेषु च इदं हितकरम् ।
  • इदं मध्यमप्रमाणेन उपयुज्यते चेत् श्वासरोगः अपि अपगच्छति ।
  • अस्य अधिकेन प्रमाणेन सेवनेन वमनं भवति ।
  • अनेन निर्मितानि “पुनर्नवाष्टकचूर्णं”, “पुनर्नवलेह्यं”, “पुनर्नवमण्डूरं”, “पुनर्नवासवः” “पुनर्नवतैलम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
  • अस्य चूर्णं ५ – १५ ग्रैन्स् यावत्, लेह्यं १ – ५ ग्रां यावत्, मण्डूरं १ – २ वटिका (गुलिका) यावत्, आसवः जलेन सह दिने द्विवारं ३० एम्. एल् यावत् उपयोक्तव्यम् ।
  • मूलस्य चूर्णं गोधृतेन मिश्रीकृत्य नेत्रे अञ्जनवत् उपयोगेन नेत्ररोगाः अपगच्छन्ति ।
  • मूलम् अवघृष्य सेवनीयम् । धृष्टं लेप्यं अञ्जनवत् नेत्रे लेपनीयम् । तेन सह यत्र विषजन्तुः दष्टवान् भवति तत्र लेपनीयम् । सर्पस्य, मूषकस्य, वृश्चिकस्य च विषं अनेन अपगच्छति । जम्बीर रसेन सह घृष्टं पुनर्नवायाः लेपमपि केचन उपयुङ्के ।
  • मूलेन १४-२८ मि.ली परिमितं रसं सञ्जीकृत्य प्रतिदिनं द्विवारं सेवनेन जलोधरसेगः शाम्यति ।
  • पिष्टमूलस्य भक्षणनेन रक्तप्रदरः (Dysmenorrhoea) कुष्टरोगः च शाम्यति । धृष्टमूलस्य लेपस्य लेपनेन चर्माणि जाताः (गन्धे –ದದ್ದು) लघुपिटकाः न्यूनाः भवन्ति
  • पर्णानां व्यञ्जनं कृत्वा सेवनेन रक्तशुद्धिः भवति ।
  • सस्यस्य उष्णीकृतं कषायं शोथस्य उपरि स्थापनेन वा पिष्पपचने स्थापयित्वा न्लानस्य सस्य शोथस्य उपरि बन्धनेन च शोथः न्यूनः भवति
  • सस्यस्य चूर्णं गोधृतेन सह सेवन्ते चेत् उदखेदना अपगच्छति । इदमेव –चूर्णं, बीजं वां शर्करामिश्रितर्क्षरेण कानिचन दिनानि सेवते चेत् बलं वीर्यं च वर्धते
  • शुनकः यं दशति तस्मै अस्य सस्यस्य स्वरसं पाययन्ति ।


फलकम्:सस्यानि

"https://sa.bharatpedia.org/index.php?title=पुनर्नवा&oldid=2755" इत्यस्माद् प्रतिप्राप्तम्