पुदुक्कोट्टैमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian Jurisdiction

पुदुक्कोट्टैमण्डलं (Pudukkottai District) (तमिऴ्:புதுக்கோட்டைமாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पुदुक्कोट्टैनगरम् । तमिऴ्भाषायां इदं मण्डलं पुदुगै इति प्रसिद्धम् अस्ति ।

भौगोलिकम्

पुदुक्कोट्टैमण्डलस्य विस्तारः ४६६३ चतुरश्रकिलोमीटर् । अत्र ४२ किलोमीटर् दीर्घं समुद्रतीरम् अस्ति । अस्य ईशान्यदिशि पूर्वदिशि च तञ्जावूरुमण्डलम्, आग्नेयदिशि प्राक् जलसङ्क्रमः, नैर्ऋत्ये रामनाथपुरमण्डलं तथा शिवगङ्गामण्डलम्, पश्चिमवायव्यदिशयोः तिरुचिराप्पळ्ळिमण्डलं च अस्ति ।

इतिहासः

ऐतिहासिककालाद् अपि प्राक् अस्मिन् प्रदेशे जनवसतिः आसीद् इति अत्र दृष्टैः पुरातनावशेषैः ज्ञायते । भिन्नेषु कालेषु अत्र पाण्ड्यानां, चोळानां, पल्लवानां, होय्सळानां, विजयनगरराजानां, मधुरैनायकानां च प्रशासनम् आसीत् । अतः अत्रत्ये सामाजिकजीवने, संस्कृतौ, वाणिज्ये, उद्यमेषु सर्वेषाम् एतेषां प्रभावः दृश्यते । तमिऴ्भाषायाः अतिप्राचीने सङ्गमसाहित्ये अस्य मण्डलस्य केषाञ्चन प्रदेशानाम् उल्लेखः अस्ति । पुरनानूरौ तिरुमायम् उपमण्डलस्य ओलियमङ्गलम् ‘ओल्लैयूरु’ इति उच्यते । इदं कवेः ओल्लैयूरु किलन् मकन् पेरुञ्चत्तानस्य ओल्लैयूरु तन्दबुधपाण्ड्यस्य च जन्मस्थलम् । अगनानूरौ अपि ओल्लैयूरोः उल्लेखः अस्ति । इदं नगरं पाण्ड्यकाले प्रामुख्यम् अभजत ।

सङ्गमकाले अस्मिन् मण्डले पाण्ड्यानां प्रशासनम् आसीत् । उत्तरसीमायां केचन भागाः उरयूरुचोळानां प्रशासने आसन् । अत्र सामुद्रवाणिज्यम् अपि अभिवृद्धम् आसीत् । आलङ्गुडि उपमण्डलस्य करुक्ककुरिच्चौ ५०० तः अधिकानि रोमन् सुवर्णनाणकानि रजतनाणकानि च लब्धानि । चतुर्थशतकस्य अन्त्यात् षष्ठशतकस्य अन्तिमपादपर्यन्तं कलभ्राः इमं प्रदेशं शासितवन्तः । ५९० तमे वर्षे कडुङ्गोनपाण्ड्येन कलभ्राः पराजिताः । पाण्ड्यराजानां शासनानि अस्मिन् मण्डले कुडुमियन्मलै, तिरुगोकर्णं, सित्तन्नवासल् इत्यादिषु प्रदेशेषु लब्धाः सन्ति । पुदुक्कोट्टैनगरात् प्रवहन्ती वेल्लार् नदी प्राचीनकाले चोळराज्यस्य पाण्ड्यराज्यस्य च सीमाभूता आसीत् । तस्याः उत्तरभागः कोनाडु इति , दक्षिणभागश्च कानाडु इति ख्यातः आसीत् । नन्दिवर्मणः (७३०-७९६) कालात् अस्मिन् मण्डले पल्लवानां शासनम् आरब्धम् । पल्लवानां पाण्ड्यानां च शासनसमये अत्र तमिऴ् भक्तिसम्प्रदायस्य उगमः आसीत् । तेवारेषु अस्य मण्डलस्य अनेकेषां देवालयानाम् उल्लेखः दृश्यते । नायन्मारेषु त्रयः एतन्मण्डलाभिजाताः – कोडुम्बलूरोः इडङ्गलिनायनारः, देवरमलैप्रदेशस्य पेरुमिऴलै कुरुम्बनायनारः, मनमेल्गुडेः कुलच्चिरैनायनारः च ।

एकादशशतकपर्यन्तं जैनधर्मः अत्र बहुभिः अनुष्ठितः आसीत् । अतः मण्डले बहूनि जैनधर्मसम्बद्धानि स्थलानि सन्ति । कोट्टैपट्टिने, करूरौ च बौद्धविग्रहाः अपि सन्ति । नवमशतके तञ्जावूरौ प्रशासनम् आरब्धवन्तः चोळाः इमं प्रदेशम् अपि स्वायत्तीकृतवन्तः । प्रथमस्य परान्तकस्य (९०७-९५५) काले चोळाः सम्पूर्णं पाण्ड्यराज्यं जितवन्तः । तृतीयकुलोत्तुङ्गस्य कालपर्यन्तम् (११७८-१२१८) अयं प्रदेशः चोळानाम् अधीनम् आसीत् । ततः पुनः अत्र पाण्ड्यानां प्रशासनम् आरब्धम् । जातवर्मसुन्दरपाण्ड्यस्य जातवर्मवीरपाण्ड्यस्य च युगलराज्यभारे इदं मण्डलं समृद्धिं प्राप्नोत् ।

देहलीसुल्तानस्य अलावुद्दिन् खिल्जेः सेनानीः मलिककाफ़रः पाण्ड्यदेशम् आक्रम्य मधुरैनगरे सुल्तानानां प्रशासनम् आरब्धवान् । प्रायः ७५ वर्षाणि यावत् अस्मिन् मण्डले मधुरैसुल्तानानां प्रशासनम् आसीत् । ततः १३७१ तमे वर्षे विजयनगरसाम्राज्यस्य कुमारकम्पणः मधुरैसुल्तानान् पराजितवान् । विजयनगरस्य अधीनत्वेन अनेके प्रादेशिकाः अधिराजाः अत्र प्रभाविनः आसन् । सप्तदशशतकस्य अन्ते पुदुक्कोट्टै तोण्डैमानाः बलिष्ठाः अभवन् । ततः आरभ्य १९४७ तमे वर्षे स्वान्तन्त्र्यप्राप्तिपर्यन्तं ते एव अस्मिन् प्रदेशे प्रशासनं कृतवन्तः ।

ब्रिटिशानां शासनकाले मद्रास् सर्वकारस्य अधीनतया पञ्च राजकुमारप्रान्ताः आसन्। तेषु पुदुक्कोट्टै अपि अन्यतमम् । तोण्डैमानाः हैदरालि, टिपूसुल्तानयोः विरुद्धं प्रवृत्ते युद्धे ब्रिटिशानां साहाय्यं कृतवन्तः । अतः ब्रिटिशाः पुदुक्कोट्टैमण्डलं तेषाम् एव राज्यभारे स्थापितवन्तः । अष्टादशशतकस्य अन्त्यपर्यन्तम् अयं प्रदेशः ‘तोण्डैमानराज्यम्’ इत्येव प्रसिद्धः आसीत् ।

स्वातन्त्र्यानन्तरं १९७४ तमवर्षस्य जनवरीमासस्य १४ दिनाङ्के पूर्वतनतिरुचिरापळ्ळिमण्डलस्य पुदुक्कोट्टैविभागं, तञ्जावूरुमण्डलस्य कांश्चन भागान् च योजयित्वा पुदुक्कोट्टैमण्डलं निर्मितम् ।

जनसंख्या

२०११ वर्षस्य जनगणनानुगुणं पुदुक्कोट्टैमण्डलस्य जनसंख्या १,६१८,७२५ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३०९ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३४८ (९०० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धिः १०.९% आसीत् । अस्य मण्डलस्य पुं, स्त्री अनुपातः १०००:१०१५, साक्षरताप्रमाणं च ७७.७६% अस्ति ।

उपमण्डलानि

पुदुक्कोट्टैमण्डले एकादश उपमण्डलानि सन्ति

  • पुदुक्कोट्टै
  • करम्बक्कुडिः
  • आलङ्गुडिः
  • अरन्तङ्गिः
  • तिरुमायम्
  • पोन्नमरावतिः
  • गन्धर्वकोट्टै
  • अवुडैयर्कोविलः
  • मनमेल्कुडिः
  • कुलत्तूरुः
  • इल्लुप्पूरुः

वीक्षणीयस्थलानि

चित्तन्नवासलः

पुदुक्कोट्टैनगरात् १६ किलोमीटर् दूरे विद्यमानं जैनानां प्राचीनं वासस्थलम् इदम् । अत्र गुहान्तर्गतदेवालये अजन्तासदृशानि चित्राणि दृश्यन्ते । अत्र ब्राह्मीलिप्यां क्रिस्तपूर्वद्वितीयशतकस्य शिलाशासनम् अपि अस्ति । अयं गुहादेवालयः पाण्ड्यैः क्रिस्तीये नवमशतके शोधितः, कलाभिः अलङ्कृतः च । देवालयस्य अर्धमण्डपे जैनतीर्थङ्कराणां मूर्तयः दृश्यन्ते ।

कुडुबलूरुः

अयं ग्रामः पुदुक्कोट्टैतः ३६ किलोमीटर् दूरे अस्ति । तमिऴ्भाषायाः प्राचीनकाव्ये शिलप्पदिकारे अस्य उल्लेखः अस्ति । अत्र विद्यमानः प्राचीनतमः चोळदेवालयः ’मूवर्कोयिल्’ (देवालयत्रयम्) इति प्रसिद्धः । तेषु सम्प्रति द्वौ देवालयौ एव अवशिष्टौ । एते देवालयाः क्रिस्तीये दशमशतके विक्रमकेसरिणा निर्मिताः । चोळानां शिल्पकलावैभवः अत्र द्रष्टुं शक्यः ।

तिरुमायम्

अत्र १६८७ तमे वर्षे रामनाथपुरस्य सेतुपतिना निर्मितः ४० एकर् विस्तीर्णः दुर्गः अस्ति । सत्यगिरीश्वरनाम्ना शिवस्य, तथा सत्यमूर्तिनाम्ना विष्णोः गुहादेवालयौ अत्र स्तः ।

कुडुमियन्मलै

अयं गिरिः पुदुक्कोट्टैतः २० किलोमीटर् दूरे अस्ति । अत्र होय्सळकालस्य बृहत् गुहादेवालयः अस्ति । अत्रत्यः आराध्यदेवः शिखागिरीश्वरः । अस्मिन् देवालये सुन्दराणि शिल्पानि सन्ति ।

विरलिमलै

तिरुचिरापळ्ळितः ३० किलोमीटर् दूरे विद्यमाने अस्मिन् पर्वते सुब्रह्मण्यस्य देवालयः अस्ति । अत्रैव मयूराणं संरक्षणधाम अपि अस्ति । आवूरुः – अत्र १५४७ तमे वर्षे फ़ादर् जान् वेनान्षियस् बौचेटेन निर्मितः क्रैस्तदेवतागारः अस्ति । अत्रैव १७४७ तमे वर्षे नूतनः रोमन् काथोलिक् क्रैस्तदेवालयः निर्मितः ।

तिरुगोकर्णः

अत्र क्रिस्तीये नवमशतके पाण्ड्यराजेन निर्मितः श्रीगोकर्णेश्वर बृहदम्बामन्दिरम् अस्ति । पुदुक्कोट्टैवस्तुसङ्ग्रहालयः अपि तिरुगोकर्णे अस्ति । अत्र भूगर्भशास्त्रं, प्राणिशास्त्रं, चित्रकला, पुरातत्त्वशास्त्रं, मानवशास्त्रं, नाणकाध्ययनं, अर्थशास्त्रं, सस्यशास्त्रसम्बद्धानि अमूल्यवस्तूनि दृश्यन्ते । पळ्ळिवासलः – पुदुक्कोट्टै मधुरैराजमार्गे विद्यमानम् इदं इस्लामधर्मस्य पवित्रक्षेत्रम् । कट्टुबाबा इति प्रसिद्धस्य बाबा फ़क्रुद्दीनस्य स्मारकम् अत्र दृश्यते । रबियुल् अहिर् मासे अत्र वार्षकः उत्सवः (उरस्) भवति ।

अवुडैयर्कोविल्

अस्य मण्डलस्य वैभवपूर्णेषु देवालयेषु अस्य आत्मनाथदेवालयस्य अग्रस्थानम् । अयं देवालयः बृहतीभिः शिलामूर्तिभिः पूरितः अस्ति । शिलाशासनेषु अयं देवालयः ’तिरुप्पेरुन्दुरै’ इति उच्यते । शैवसता माणिक्कवासगरेण सम्बद्धः अयं देवालयः । शैवानां पवित्रग्रन्थः’तिरुवासगं’ माणिक्कवासगरेण अत्रैव विरचितः । अस्य विशेषः यत् देवः अत्र निर्गुणरूपेण आराध्यते । गर्भगृहे कापि मूर्तिः नास्ति । माणिक्कवासगरस्य मूर्तिः एव देवालयस्य उत्सवमूर्तिः । इदं क्षेत्रं पुदुक्कोट्टैतः ४९ किलोमीटर् दूरे अस्ति ।

External links

फलकम्:Commons category

References

फलकम्:Reflist

फलकम्:Geographic location

फलकम्:तमिळनाडु मण्डलाः

"https://sa.bharatpedia.org/index.php?title=पुदुक्कोट्टैमण्डलम्&oldid=4702" इत्यस्माद् प्रतिप्राप्तम्